वं भूयादित्यवाह्यैः करणैरन्तःकरणैराशशंसे ॥ शंसतेरपेक्षायामात्मनेपदमिष्यते । करणैरिति बहुवचनं क्रियावृत्यभिप्रायम् । पुनः पुनराशशंस इत्यर्थः॥
गुरोरिति ॥ गुरोर्ज्येष्ठस्य नियोगात्साध्वीं वनिताम् । अत्याज्यामित्यर्थः । वनान्ते विहास्य॑स्त्यक्ष्यन्सुमित्रातनयो लक्ष्मणः पुरस्तादग्रे स्थितया जह्नोर्दुहित्रा जाह्नव्योत्थितैर्वीचिहस्तैरवार्यतेव ॥ अकार्यं मा कुर्वित्यवार्यतेव । इत्युत्प्रेक्षा ।।
रथात्स[६] यन्त्रा निगृहीतवाहात्तां भ्रातृजायां पुलिनेऽवतार्य ।
गङ्गां निषादाहृतनौविशेषस्ततार संधामिव सत्यसंधः॥५२॥
रथादिति ॥ सत्यसंधः सत्यप्रतिज्ञः स लक्ष्मणो यन्त्रा सारथिना निगृहीतवाहाद्रुद्धाश्वाद्रथाद्भ्रातृजायां पुलिनेऽवतार्यारोप्य निषादेन किरातेनाहृतनौविशेष आनीतदृढनौकः सन् । गङ्गां भागीरथीम् । संधां प्रतिज्ञामिव । ततार ॥ “संधा प्रतिज्ञा मर्यादा" इत्यमरः॥
अथ व्यवस्थापितवाक्कथंचित्सौमित्रिरन्तर्गतबाष्पकण्ठः ।
औत्पा[७]तिकं मेघ इवाश्मवर्षं महीपतेः शासनमुज्जगार ॥ ५३ ॥
अथेति ॥ अथ कथंचिद्व्यवस्थापिता प्रकृतिमापादिता वाग्येन सः। अन्तर्गतबाष्पः कण्ठो यस्य सः । कण्ठस्तम्भिताश्रुरित्यर्थः । सौमित्रिर्महीपतेः शासनम् । मेघ उत्पाते भवमौत्पातिकमश्मवर्षं शिलावर्षमिव । उज्जगारोद्गीर्णवान् । दारुणत्वेनावाच्यत्वादुज्जगारेत्युक्तम् ॥
ततो[८]ऽभिषङ्गानिलविप्रविद्धा प्रभ्रश्यमानाभरणप्रसूना ।
स्वमूर्तिलाभप्रकृतिं धरित्रीं लतेव सीता सहसा जगाम ॥५४॥
तत इति ॥ ततः। अभिषङ्गः पराभवः ॥ “शापे त्वभिषङ्गः पराभवः" इत्यमरः ॥ स एवानिलस्तेन विप्रविद्धा अभिहता । प्रभ्रश्यमानानि पतन्त्याभरणान्येव प्रसूनानि यस्याः सा सीता लतेव । सहसा स्वमूर्तिलाभस्य स्वशरीरलाभस्य स्वोत्पत्तेः प्रकृतिं कारणं धरित्रीं जगाम । भूमौ पपातेत्यर्थः ॥ स्त्रीणामापदि मातैव
शरणमिति भावः॥