पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३०१

पुटमेतत् सुपुष्टितम्
( २९९ )
चतुर्दशः सर्गः ।

  इक्ष्वाकुवंशप्रभवः कथं त्वां त्यजेदकस्मात्पतिरार्यवृत्तः।
  इति क्षितिः संशयितेव तस्यै ददौ प्रवेशं जननी न तावत् ॥५५॥

 इक्ष्वाक्विति ॥ इक्ष्वाकुवंशप्रभवः। महाकुलप्रसूतिरित्यर्थः । आर्यवृत्तः साधुचरितः पतिर्भर्ता त्वामकस्मादकारणात्कथं त्यजेत् । असंभावितमित्यर्थः। इति संशयितेव संदिहानेव तावत् । त्यागहेतुज्ञानावधेः प्रागित्यर्थः । जननी क्षितिस्तस्यै सीतायै प्रवेशम् । आत्मनीति शेषः । न ददौ ॥

  सा लुप्तसंज्ञा न विवेद दुःखं प्रत्यागतासुः समतप्यतान्तः ।
  तस्याः सुमित्रात्मजयत्नलब्धो मोहादभूत्कष्टतरः प्रबोधः ।।५६।।

 सेति ॥ लुप्तसंज्ञा नष्टचेतना मूर्छिता सा दुःखं न विवेद । प्रयागतासुर्लुब्धसंज्ञा सत्यन्तः समतप्यत । दुःखेनादह्यतेत्यर्थः ॥ तपेः कर्मणि लङ् । कर्मकर्तरीति केचित् । तन्न । “ तपस्तपः कर्मकस्यैव" इति यङ्नियमात् ॥ तस्याः सीतायाः सुमित्रात्मजयत्नलब्धः प्रबोधो मोहात्कष्टतरोऽतिदुःखदोऽभूत् । दुःखवेदनासंभवादिति भावः॥

  न चावदद्भर्तुरवर्णमार्या निराकरिष्णोर्वृजिनादृतेऽपि ।
  आत्मानमेव स्थिरदुःखभाजं पुनः पुनर्दुष्कृतिनं निनिन्द ।।५७।।

 न चेति ॥ आर्या साध्वी सा सीता वृजिनाहत एनसो विनापि ॥ कलुषं वृजिनैनोऽघम्" इत्यमरः ॥ “ अन्यारादितरर्ते-" इत्यादिना पञ्चमी ॥ निराकरिष्णोर्निरासकस्य ॥ “अलंकृञ्-" इत्यादिनेष्णुच्प्रत्ययः ।। भर्तुरवर्णमपवादं न चावदन्नैवावादीत् । किंतु स्थिरदुःखभाजमतएव दुष्कृतिनमात्मानं पुनः पुनर्निनिन्द ॥

  आश्वास्य रामावरजः सती तामाख्यातवाल्मीकिनिकेतमार्गः।
  निघ्नस्य मे भर्तृनिदेशरौक्ष्यं देवि क्षमस्वेति बभूव नम्रः।। ५८ ।।

 आश्वास्येति ॥ रामावरजो लक्ष्मणः सतीं साध्वी तामाश्वास्य । आख्यात उपदिष्टो वाल्मीनिकेतस्याश्रमस्य मार्गो येन स तथोक्तः सन् । निघ्नस्य पराधीनस्य ॥ “ अधीनो निघ्न आयत्तः" इत्यमरः । मे भर्तृ निदेशेन स्वाम्यनुज्ञया हेतुना यद्रौक्ष्यं पारुष्यं तद्धे देवि क्षमस्व । इति नम्रः प्रणतो बभूव ।।

  सीता तमुत्थाप्य जगाद वाक्यं प्रीतास्मि ते सौम्य चिराय जीव।
  बिडौजसा विष्णुरिवाग्रजेन भ्रात्रा यदित्थं परवानसि त्वम्।।५९।।

१ आर्यवृत्तिः. २ इत्थम्. ३ संशयति. ४ स सीताम्. ५ भ्रातृनिदेशरौक्ष्यम् ; भर्तृनिदेशरूक्षम् ;

भर्तृनिदेशरौक्श्हम्। ६ वत्स.