सीतेति ॥ सीता तं लक्ष्मणमुत्थाप्य वाक्यं जगाद । किमिति । हे सौम्य साधो ते प्रीतास्मि । चिराय चिरं जीव । यद्यस्मात् । बिडौजसेन्द्रेण विष्णुरुपेन्द्र इव । अग्रजेन ज्येष्ठेन भ्रात्रा त्वमित्थं परवान्परतन्त्रोऽसि ॥
श्वश्रूजनं सर्वमनुक्रमेण वि[१]ज्ञापय प्रापितमत्प्रणामः।
प्रजानिषेकं मयि वर्तमानं सूनोरनुध्यायत चेतसेति ॥ ६०॥
श्वश्रूजनमिति ॥ सर्वं श्वश्रूजनमनुक्रमेण प्रापितमत्प्रणामः सन् । मत्प्रणाममुक्त्वेत्वर्थः । विज्ञापय । किमिति । निषिच्यत इति निषेकः । मयि वर्तमानं सूनोस्त्वत्पुत्रस्य प्रजानिषेकं गर्भं चेतसानुध्यायत शिवमस्त्विति चिन्तयतेति ॥
वाच्यस्त्वया मद्वचनात्स राजा वह्नौ विशुद्धामपि यत्समक्षम् ।
मां लोकवादश्रवणादहासीः श्रुतस्य किं त[२]त्सदृशं कुलस्य॥६१॥
वाच्य इति ॥ स राजा त्वया मद्वचनान्मद्वचनमिति कृत्वा ॥ ल्यब्लोपे पञ्चमी ॥ वाच्यो वक्तव्यः॥ किमित्यत आह “वह्रौ" इत्यादिभिः सप्तभिः श्लोकैः-अक्ष्णोः समीपे समक्षम् ॥ विभक्त्यर्थेऽव्ययीभावः सामीप्यार्थे वा । “अव्ययीभावे शरत्प्रभृतिभ्यः" इति समासान्तष्टच्प्रत्ययः॥ समक्षमग्रे वह्नौ विशुद्धामपि मां लोकवादस्य मिथ्यापवादस्य श्रवणाद्धेतोरहासीरत्याक्षीरिति यत्तच्छ्रुतस्य प्रख्यातस्य कुलस्य सदृशं किम् । किंत्वसदृशमित्यर्थः ॥ यद्वा श्रुतस्य श्रवणस्य कुलस्य चेति योजना । कामचार्यसीति भावः ॥
कल्याणबुद्धेरथवा तवायं न कामचारो मयि शङ्कनीयः।
ममैव जन्मान्तरपातकानां विपाकविस्फूर्जथुरप्रसह्यः ॥६२॥
कल्याणेति ॥ अथवा कल्याणबुद्धः सुधियस्तव । कर्तुः । मयि विषयेऽयं त्यागो न कामचार इच्छया करणं न शङ्कनीयः । कामचारशङ्कापि न क्रियत इत्यर्थः । किंतु ममैव जन्मान्तरपातकानामप्रसह्यो विपच्यत इति विपाकः फलित एव विस्फूर्जथुरशनिनिर्घोषः ॥“स्फूर्जथुर्वज्रनिर्घोषे" इत्यमरः॥
उपस्थितामिति ॥ पूर्वमुपस्थितां प्राप्तां लक्ष्मीमपास्य मया सार्धं वनं प्रपन्नोऽसि प्राप्तोऽसि । तत्तस्मात्तया लक्ष्म्यातिरोषात्त्वद्भवनं आस्पदं प्रतिष्ठाम् ॥
"आस्पदं प्रतिष्ठायाम्" इति निपातः ॥ प्राप्य वसन्त्यहं सोढा नास्मि ।