पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३०३

पुटमेतत् सुपुष्टितम्
( ३०१ )
चतुर्दशः सर्गः ।

  निशाचरोपप्लुतभर्तृकाणां तपस्विनीनां भवतः प्रसादात् ।
  भूत्वा शरण्या शरणार्थम[१]न्यं कथं प्रपत्स्ये त्वयि दीप्य[२]माने ॥६४॥

 निशाचरेति ॥ निशाचरैरुपप्लुताः पीडिता भर्तारो यासां ता निशाचरोपप्लुतभर्तृकाः ॥ "नद्यृतश्च " इति कप्पत्ययः ॥ तासां तपस्विनीनां भवतः प्रसादादनुग्रहाच्छरण्या शरणसमर्था भूत्वा । अद्य त्वयि दीप्यमाने प्रकाशमाने सत्येव शरणार्थमन्यं तपस्विनं कथं प्रपत्स्ये प्राप्स्यामि ।

  किंवा तवात्यन्तवियोगमोघे कुर्यामु[३]पेक्षां हतजीवितेऽस्मिन् ।
  स्याद्रक्षणीयं यदि मे न तेजस्त्वदीयमन्तर्गतमन्तरायः॥६५॥

 किंवेति ॥ किंवाथवा तव संबन्धिनात्यन्तेन पुनः प्राप्तिरहितेन वियोगेन मोघे निष्फलेऽस्मिन्हतजीविते तुच्छजीवित उपेक्षां कुर्यां कुर्यामेव । रक्षणीयं रक्षणार्हमन्तर्गतं कुक्षिस्थं त्वदीयं तेजः शुक्रं गर्भरूपम् ॥ “शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च" इत्यमरः ॥ मे ममान्तरायो विनो न स्याद्यदि ॥

  साहं तपः सूर्यनिविष्ट[४]दृष्टिरूर्ध्वं प्रसूतेश्वरितुं यतिष्ये ।
  भूयो य[५]था मे जननान्तरेऽपि त्वमेव भर्ता न च विप्रयोगः॥६६॥

 सेति ॥ साहं प्रसूतेरूर्ध्वं सूर्यनिविष्टदृष्टिः सती तथाविधं तपश्चरितुं यतिष्ये । यथा भूयस्तेन तपसा मे मम जननान्तरेऽपि त्वमेव भर्ता स्या विप्रयोगश्च न स्यात् ॥

  नृपस्य वर्णाश्रमपा[६]लनं यत्स एव धर्मो मनुना प्रणीतः ।
  निर्वासिताप्येवमतस्त्वयाहं तपस्विसामान्यमवेक्षणीया ॥६७॥

 नृपस्येति ॥ वर्णानां ब्राह्मणादीनामाश्रमाणां ब्रह्मचर्यादीनां च पालनं यत्स एव नृपस्य धर्मो मनुना प्रणीत उक्तः। अतः कारणादेवं त्वया निर्वासिता निष्कासिताप्यहं तपस्विभिः सामान्यं साधारणं यथा भवति तथावेक्षणीया । कलत्रदृष्ट्यभावेऽपि वर्णाश्रमदृष्टिः सीतायां कर्तव्येत्यर्थः ।।

  तथेति तस्याः प्रतिगृह्य वाचं रामानुजे दृष्टिपथं व्यतीते ।
  सा[७] मुक्तकण्ठं व्यसनातिभाराच्चक्रन्द वि[८]ग्ना कुररीव भूयः॥६८॥

 तथेति ॥ तथेति तस्याः सीताया वाचं प्रतिगृह्याङ्गीकृत्य रामानुजे लक्ष्मणे दृष्टिपथं व्यतीतेऽतिक्रान्ते सति सा सीता व्यसनातिभाराद्दुःखातिरेकान्मुक्तकण्ठं यथा


  1. अन्याम्.
  2. वर्तमाने.
  3. अपेक्षाम्.
  4. निबद्ध.
  5. तथा.
  6. रक्षणम्.
  7. समुक्तकण्ठम्.
  8. व्यग्रा.