पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३०४

पुटमेतत् सुपुष्टितम्
( ३०२ )
रघुवंशे

स्यात्तथा । वाग्वृत्त्येत्यर्थः । विग्ना भीता कुररीवोत्क्रोशीव ॥" उत्क्रोशकुररौ समौ" इत्यमरः ॥ भूयो भूयिष्टं चक्रन्द चुक्रोश ॥

  नृ[१]त्यं मयूराः कुसुमानि वृ[२]क्षा दर्भानुपात्तान्विजहुर्हरिण्यः ।
  तस्याः प्रपन्ने समदुःखभावम[३]त्यन्तमासीद्रुदितं वनेऽपि ॥ ६९ ॥

 नृत्यमिति ॥ मयूरा नृत्यं विजह्रु स्त्यक्तवन्तः । वृक्षाः कुसुमानि । हरिण्य उपात्तान्दर्भान् । इत्थं तस्याः सीतायाः समदुःखभावं प्रपन्ने तुल्यदुःखत्वं प्राप्ते वनेऽप्यत्यन्तं रुदितमासीत् । यथा रामगेहेऽपीत्यपिशब्दार्थः॥

  तामभ्यगच्छद्रुदितानुसारी कविः कुशेध्माहरणाय यातः ।
  निषादविद्धाण्डजदर्शनोत्थः श्लोकत्वमापद्यत यस्य शोकः॥७०॥

 तामिति ॥ कुशेध्माहरणाय यातः कविर्वाल्मीकी रुदितानुसारी संस्तां सीतामभ्यगच्छत् । अभिगमनं च दयालुतयेत्याह-निषादेति ॥ निषादेन व्याधेन विद्धस्याण्डजस्य क्रौञ्चस्य दर्शनेनोत्थ उत्पन्नो यस्य शोकः श्लोकत्वमापद्यत । श्लोकरूपेणावोचदित्यर्थः ॥ स च श्लोकः पठ्यते-“मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः। यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम्" इति ॥ तिरश्चामपि दुःखं न सेहे । किमुतान्येषामिति भावः ॥

  तमश्रु नेत्रावरणं प्रमृज्य सीता वि[४]लापाद्विरता ववन्दे ।
  तस्यै मुनिर्दोह[५]दलिङ्गदर्शी दा[६]श्वान्सुपुत्राशिषमित्युवाच ॥७१॥

 तामिति ॥ सीता विलापाद्विरता सती नेत्रावरणं दृष्टिप्रतिबन्धकमश्रु प्रमृज्य तं मुनिं ववन्दे । दोहदलिङ्गदर्शी गर्भचिह्नदर्शी मुनिस्तस्यै सीतायै सुपुत्राशिषं तत्प्राप्तिहेतुभूतां दाश्वान्दत्तवानिति वक्ष्यमाणप्रकारेणोवाच ॥ “दाश्वान्साह्वान्मीढ्वांश्च" इति क्वस्वन्तो निपातः॥

  जा[७]ने विसृष्टां प्रणिधानतस्त्वां मिथ्यापवादक्षुभितेन भर्त्रा ।
  तन्मा व्यथिष्ठा विषयान्तरस्थं प्राप्तासि वैदेहि पितुर्निकेतम् ||७२ ||

 जान इति॥ त्वां मिथ्यापवादेन क्षुभितेन भर्त्रा विसृष्टां त्यक्तां प्रणिधानत समाधिदृष्ट्या जाने । हे वैदेहि, विषयान्तरस्थं देशान्तरस्थं पितुर्जनकस्यैव निकेतं गृहं प्राप्तासि । तत्तस्मान्मा व्यथिष्ठा मा शोचीः ।। व्यथेर्लुङ् ॥ “न माङ्योगे"

इत्यडागमप्रतिषेधः ॥ भर्त्रोपेक्षितानां पितृगृहवास एवोचित इति भावः।।


  1. नृत्तम.
  2. भृङ्गाः.
  3. अत्यर्थम्.
  4. प्रलापात्.
  5. दौर्हृद.
  6. दत्त्वा.
  7. वने.