अकृष्टरोह्यकृष्टक्षेत्रोत्थम् । अकृष्टपच्यमित्यर्थः । बलये हितं बालेयं पूजायोग्यम् ॥ छदिरुपधिवलेर्ढञ्” इति ढञ्प्रत्ययः॥ बीजं नीवारादि धान्यं चाहरन्स उदारवाचः प्रगल्भगिरो मुनिकन्यका नवाभिषङ्गां नूतनदुःखां त्वां विनोदयिष्यन्ति ।
पयोघटैराश्रमबालवृक्षान्संवर्धयन्ती स्वबलानुरूपैः ।
असंशयं प्राक्तनयोपपत्तेः स्तनंधयप्री[१]तिमवाप्स्यसि त्वम् ॥७८॥
पय इति ॥ स्वबलानुरूपैः स्वशक्त्यनुसारिभिः पयसामम्भसां घटैः । स्तन्यैरिति च ध्वन्यते । आश्रमबालवृक्षान्संवर्धयन्ती त्वं तनयोपपत्तेः प्राक्पूर्वमसंशयं यथा तथा । स्तनं धयति पिबतीति स्तनंधयः शिशुः॥ "नासिकास्तनयोर्ध्माधेटोः" इति खश्प्रत्ययः । “अरुर्द्विषत्-" इत्यादिना मुमागमः ॥ तस्मिन्या प्रीतिस्तामवाप्स्यसि । ततः परं सुलभ एव विनोद इति भावः ॥
अनुग्रहेति ॥ दयार्द्रचेता वाल्मीकिः । अनुग्रहं प्रत्यभिनन्दतीति तथोक्तां तां सीतामादाय सायं मृगैरध्यासितवेदिपार्श्वमधिष्ठितवेदिप्रान्तं शान्तमृगं स्वमाश्रमं निनाय ॥
तामिति ॥ शोकदीनां तां सीतां तस्याः सीताया आगमेन प्रीतिर्यासां तासु तापसीषु । पितृभिरग्निष्वात्तादिभिर्निर्विष्टसारां भुक्तसारां हिमांशोरन्त्यामवशिष्टां कलां दर्शोऽमावास्याकाल ओषधीष्विव । अर्पयामास च ।। अत्र पराशरः -"पिबन्ति विमलं सोमं विशिष्टा तस्य या कला । सुधामृतमयीं पुण्यां तामिन्दोः पितरो मुने” इति । व्यासश्च-"अमायां तु सदा सोम ओषधीः प्रतिपद्यते" इति ॥
ता इङ्गुदीस्नेहकृतप्रदीपमास्तीर्णमेध्याजिनतल्पमन्तः ।
तस्यै सपर्यानुपदं दिनान्ते निवासहेतोरुटजं वि[९]तेरुः ॥८१॥
ता इति ॥ तास्तापस्यस्तस्यै सीतायै सपर्यानुपदं पूजानन्तरं दिनान्ते सायंकाले निवास एव हेतुस्तस्य निवासहेतोः । निवासार्थमित्यर्थः ॥ “षष्ठी हेतुप्रयोगे" इति षष्ठी । “इङ्गुदी तापसतरू" इत्यमरः ॥ इङ्गुदीस्नेहेन कृतप्रदीपमन्तरास्तीर्णं मेध्यं शुद्धर्माजनमेव तल्पं शय्या यस्मिंस्तमुटजं पर्णशालां वितेरुर्ददुः ॥