पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३०७

पुटमेतत् सुपुष्टितम्
( ३०५ )
चतुर्दशः सर्गः ।

  तत्राभिषेकप्रयता वसन्ती प्रयुक्तपूजा विधि[१]नातिथिभ्यः।
  वन्येन सा वल्कलिनी शरीरं पत्युः प्रजासंततये बभार ॥८२॥

 तत्रेति ॥ तत्राश्रमेऽभिषेकेण स्नानेन प्रयता नियता वसन्ती विधिना शास्त्रेणातिथिभ्यः प्रयुक्तपूजा कृतसत्कारा वल्कलिनी सा सीता पत्युः प्रजासंततये संतानाविच्छेदाय हेतोः । वन्येन कन्दमूलादिना शरीरं बभार पुपोष ॥

  अपि प्रभुःसानुशयोऽधुना स्यात्कि[२]मुत्सुकःशक्रजितोऽपि[३] हन्ता।
  शशंस सीताप[४]रिदेवनान्तमनुष्ठितं शासनमग्रजाय ॥ ८३॥

 अपीति ॥ प्रभू राजाधुनापि सानुशयः सानुतापः स्यात्किम् । इति काकुः। उत्सुकः शक्रजित इन्द्रजितो हन्ता लक्ष्मणोऽपि सीतापरिदेवनान्तं सीताविलापान्तमनुष्ठितं शासनमग्रजाय शशंस ॥

  बभूव रामः स[५]हसा स[६]बाष्पस्तुषारवर्षीव सहस्यचन्द्रः ।
  कौलीनभीतेन गृहान्निरस्ता न तेन वैदेहसुता मनस्तः ।।८४॥

 बभूवति ॥ सहसा सपदि सबाष्पो रामः । तुषारवर्षी सहस्यचन्द्र इव । बभूव । अत्यश्रुतया तुषारवर्षिणा पौषचन्द्रेण तुल्योऽभूत् ॥ “पौषे तैषसहस्यौ द्वौ" इत्यमरः ॥ युक्तं चैतदित्याह-कौलीनाल्लोकापवादाद्भीतेन तेन रामेण वैदेहसुता सीता गृहान्निरस्ता । न मनस्तो मनसश्चित्तान्न निरस्ता ॥ पञ्चम्यास्तसिल् ॥

  निगृह्य शोकं स्वयमेव धीमान्वर्णाश्रमावेक्षणजागरूकः ।
  स भ्रातृसाधारणभोग[७]मृद्ध्ं राज्यं रजोरिक्तमनाः शशास ॥८५॥

 निगृह्येति ॥ धीमान्वर्णानामाश्रमाणां चावेक्षणेऽनुसंधाने जागरूकोऽप्रमत्तः॥ "जागरूकः" इत्यूकप्रत्ययः ॥ रजोरिक्तमना रजोगुणशून्यचेताः स रामः स्वयमेव शोकं निगृह्य निरुध्य भ्रातृभिः साधारणभोगम् । शरीरस्थितिमात्रोपयुक्तमित्यर्थः । ऋद्धं राज्यं शशास ॥

  ता[८]मेकभार्यां परिवादभीरोः साध्वीमपि त्यक्तवतो नृपस्य ।
  वक्षस्यसंघट्टसुखं वसन्ती रेजे[९] सपत्नीरहितेव लक्ष्मीः॥ ८६ ॥

 तामिति ॥ परिवादभीरोर्निन्दाभीरोरतएवैकभार्यामपि साध्वीमपि तां सीतां त्यक्तवतो नृपस्य वक्षस्यसंघट्टमुखमसंभाव्यसुखं वसन्ती लक्ष्मीः सपत्नीरहितेव रेजे

दिदीपे । तस्य स्त्र्यन्तरपरिग्रहो नाभूदिति भावः॥


  1. विविधातिथिभ्यः; विबुधातिथिभ्यः.
  2. इति.
  3. निहन्ता.
  4. परिदेवितान्तम्,
  5. सपदि.
  6. प्रबाष्पः.
  7. योगम्.
  8. तस्य.
  9. रेमे.