पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३१०

पुटमेतत् सुपुष्टितम्
( ३०८ )
रघुवंशे

इति खच्प्रत्ययः । “ खचि ह्रस्वः" इति ह्रस्वः॥ रघूणां मध्ये यः कश्चनैकः । अपवादो विशेषशास्त्रमुत्सर्गं सामान्यशास्त्रमिव । परं शत्रुं व्यावर्तयितुं बाधितुमीश्वरः समर्थः । अतः शत्रुघ्नमेवादिदशेति पूर्वेणान्वयः ॥

  अग्रजेन प्रयुक्ताशीस्त[१]तो दाशरथी रथी।
  ययौ वनस्थलीः पश्यन्पुष्पिताः सुरभीरभीः॥८॥

 अग्रजेनेति॥ ततोऽग्रजेन रामेण प्रयुक्ताशीः कृताशीर्वादोरथी रथिकोऽभीर्निर्भीको दाशरथिः पुष्पाणि संजातानि यासां ताः पुष्पिताः सुरभीरामोदमाना वनस्थलीः पश्यन्ययौ ॥

  रामादेशादनुगता सेना तस्यार्थसिद्धये ।
  पश्चादध्ययनार्थस्य धातोरधिरिवाभवत् ॥ ९॥

 रामेति ॥रामादेशाद[२]नुगता सेना तस्य शत्रुघ्नस्य । अध्ययनमर्थोऽभिधेयो यस्य तस्य ॥ धातोः “इङ्ङध्ययने" इत्यस्य धातोः पश्चादधिरध्युपसर्ग इव । अर्थसिद्धये प्रयोजनसाधनायेत्येकत्र । अन्यत्राभिधेयसाधनाय। अभवत् ॥ "अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु" इत्यमरः ॥ यथा “ इङिकावध्युपसर्गं न व्यभिचरते" इति न्यायेनाध्युपसर्गः स्वयमेवार्थसाधकस्य धातोः संनिधिमात्रेणोपकरोति सेनापि तस्य तद्वदिति भावः॥

  आदिष्टवर्त्मा मुनिभिः स[३] गच्छंस्तपतां व[४]रः।
  विरराज रथप्रष्ठैर्वालखिल्यैरिवांशुमान् ॥१०॥

 आदिष्टेति ॥ रथप्रष्टै रथाग्रगामिभिः ॥ “प्रष्ठोऽग्रगामिनि"इति निपातः ।। मुनिभिः पूर्वोक्तैरादिष्टवर्त्मा निर्दिष्टमार्गो गच्छंस्तपतां देदीप्यमानानां मध्ये वरः श्रेष्ठः स शत्रुघ्नः । वालखिल्यैर्मुनिभिरंशुमान्सूर्य इव । विरराज ॥ तेऽपि रथप्रष्ठा इत्यनुसंधेयम् ॥

  तस्य मार्गवशादेका बभूव वसतिर्यतः ।
  [५]थस्वनोत्कण्ठमृगे वाल्मीकीये तपोवने ॥ ११ ॥

 तस्येति ॥ यतो गच्छतः॥ इण्धातोः शतृप्रत्ययः॥ तस्य शत्रुघ्नस्य मार्गवशाद्रथस्वन उत्कण्ठा उद्ग्रीवा मृगा यस्मिंस्तस्मिन्वाल्मीकीये वाल्मीकिसंबन्धिनि ।

"वृद्धाच्छः” इति छप्रत्ययः ॥ तपोवन एका वसती रात्रिर्बभूव । तत्रैकां रात्रिमुपित इत्यर्थः । वसती रात्रिवेश्मनोः" इत्यमरः॥


  1. तदा.
  2. अनुपदं सेनाङ्गं तस्य सिद्धये.
  3. स गच्छन्वदताम् ; गच्छन्मतिमताम्.
  4. वरैः.
  5. रथस्वनोत्कीर्णमृगे; रथस्वनोत्कर्णमृगे.