पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३११

पुटमेतत् सुपुष्टितम्
( ३०९ )
पञ्चदशः सर्गः ।

  तमृषिः पूजयामास कुमारं क्ला[१]न्तवाहनम् ।
  तपःप्रभावसिद्धाभिर्विशेष[२]प्रतिपत्तिभिः ॥ १२॥

 तमिति ॥ क्लान्तवाहनं श्रान्तयुग्यं तं कुमारं शत्रुघ्नमृषिर्वाल्मीकिस्तपःप्रभावसिद्धाभिर्विशेषप्रतिपत्तिभिरुत्कृष्टसंभावनाभिः पूजयामास ॥

  तस्यामेवास्य यामिन्यामन्तर्वत्नी प्रजावती।
  सुतावसूत संप[३]न्नौ कोशदण्डाविव क्षितिः॥ १३ ॥

 तस्यामिति ॥तस्यामेव यामिन्यां रात्रावस्य शत्रुघ्नस्य । अन्तरस्या अस्तीत्यन्तर्वत्नी गर्भिणी ॥ “अन्तर्वत्नी च गर्भिणी" इत्यमरः ॥ “अन्तर्वत्पतिवतोर्नुक्" इति ङीप् । नुगागमश्च ॥ प्रजावती भ्रातृजाया सीता। क्षितिः संपन्नौ समग्रौ कोशदण्डाविव । सुतावसूत ।

  संतानश्रवणाद्भ्रातुः सौमित्रिः सौमनस्यवान् ।
  प्राञ्जलिर्मुनिमामन्त्र्य प्रातर्युक्तरथो ययौ ॥ १४ ॥

संतानेति॥ भ्रातुर्ज्येष्ठस्य संतानश्रवणाद्धेतोः सौमनस्यवान्प्रीतिमान्सौमित्रिः शत्रुघ्नः प्रातर्युक्तरथः सज्जरथः सन् । प्राञ्जलिः कृताञ्जलिमुनिमामन्त्र्यापृच्छ्य ययौ ॥

  स च प्राप मधूपघ्नं कुम्भीनस्याश्च कुक्षिजः।
  वनात्करमिवादाय सत्त्वराशिमुपस्थितः॥ १५॥

 स चेति ॥ स शत्रुघ्नश्च मधूपघ्नं नाम लवणपुरं प्राप । कुम्भीनसी नाम रावणस्वसा । तस्याः कुक्षिजः पुत्रो लवणश्च वनात्करं बलिमिव सत्त्वानां प्राणिनां राशिमादायोपस्थितः प्राप्तः ॥

  धूमधूम्रो वसागन्धी ज्वालाबभ्रुशिरोरुहः ।
  क्रव्याद्गणपरीवारश्चिताग्निरिव जंगमः ॥ १६ ॥

 धूमेति ॥ किंभूतो लवणः । धूम इव धूम्रः कृष्णलोहितवर्णः ॥ “धूम्रधूमलौ कृष्णलोहिते" इत्यमरः ॥ वसागन्धो हृन्मेदोगन्धः । सोऽस्यास्तीति वसागन्धी ॥ "हृन्मेदस्तु वपा वसा" इत्यमरः ॥ ज्वाला इव बभ्रवः पिशङ्गाः शिरोरुहाः केशा यस्य स तथोक्तः॥“विपुले नकुले विष्णौ बभ्रुः स्यात्पिङ्गले त्रिषु" इत्यमरः॥क्रव्यं मांसमदन्तीति क्रव्यादो राक्षसाः । तेषांगण एव परीवारो यस्य

स तथोक्तः । अतएव जंगमश्चरिष्णुश्चिताग्निरिव स्थितः ॥ कृशानुपक्षे धूमैर्धूम्रवर्णः । ज्वाला एव शिरोरुहाः । क्रव्यादो गृध्रादयः । इत्यनुसंधेयम् ॥


  1. श्रान्त.
  2. विषय.
  3. संपन्ना.