अपशूलं तमासाद्य लवणं लक्ष्मणानुजः।
रुरोध संमु[१]खीनो हि जयो रन्ध्रप्रहारिणाम् ॥ १७॥
अपशूलमिति ॥ लक्ष्मणानुजः शत्रुघ्नोऽपशूलं शूलरहितं तं लवणमासाद्य रुरोध ॥ तथाहि । रन्ध्रप्रहारिणां रन्ध्रप्रहरणशीलानाम् । अपशूलतैवात्र रन्ध्रम् । जयः संमुखीनो हि । संमुखस्य दर्शनो हि ॥ “यथामुखसंमुखस्य दर्शनः खः इति खप्रययः ॥ अधिकारलक्षणार्थस्तु दुर्लभ एव ॥
नेति। इतीति ॥ युग्मम् ॥ राक्षसो लवणः । अद्य मत्कुक्षेः। भुज्यत इति भोजनम् । भोज्यं मृगादिकं नातिपर्याप्तमनतिसमग्रमालक्ष्य दृष्ट्वा भीतेनेव धात्रा दिष्टया भाग्येन मे त्वमुपपादितः कल्पितोऽसि । इति शत्रुघ्नं संतर्ज्य तस्य शत्रुघ्नस्य जिघांसया हन्तुमिच्छया प्रांशुमुन्नतं द्रुमम् । मुस्तास्तम्बमिव । अक्लेशेनोत्पाटयामास॥
सौमित्रेर्निशितैर्बाणैरन्तरा श[४]कलीकृतः।
गात्रं पुष्परजः प्राप न शाखी नैर्ऋतेरितः ॥२०॥
सौमित्रेरिति ॥ नैर्ऋतेरितो रक्षःप्रेरितः शाख्यन्तरा मध्ये निशितैर्बाणैः शकलीकृतः सन्सौमित्रेः शत्रुघ्नस्य गात्रं न प्राप। किंतु पुष्परजः प्राप ॥
विनाशादिति ॥ रक्षो लवणस्तस्य विनाशाद्धेतोः । महोपलं महान्तं पाषाणम् । पृथक्स्थितं कृतान्तस्य यमस्य मुष्टिमिव ॥ मुष्टिशब्दो द्विलिङ्गः ॥ तस्मै शत्रुघ्नाय प्रजिघाय प्रहितवान् ।
ऐन्द्रमिति ॥ स महोपलः शत्रुघ्नेनैन्द्रमिन्द्रदेवताकमस्त्रमुपादाय ताडितोऽभि-