पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३१४

पुटमेतत् सुपुष्टितम्
( ३१२ )
रघुवंशे

विक्रमेणोदग्रमुन्नतं व्रीडया लज्जयावनतं नम्रं शिरः शुशुभे । विक्रान्तस्य लज्जैव भूषणमिति भावः॥

  उपकूलं स कालिन्द्याः पु[१]रीं पौरुषभूषणः।
  निर्ममे निर्ममोऽर्थेषु मथुरां मधुराकृतिः ॥२८॥

 उपेति ॥ पौरुषभूषणः । अर्थेषु विषयेषु निर्ममो निस्पृहः । मधुराकृतिः सौम्यरूपः| स शत्रुघ्नः कालिन्द्या यमुनाया उपकूलं कूले॥ विभक्त्यर्थेऽव्ययीभावः॥ मथुरां नाम पुरीं निर्ममे निर्मितवान् ॥

  या[२] सौराज्यप्रकाशाभिर्बभौ पौर[३]विभूतिभिः ।
  खर्गाभिष्यन्दवमनं कृत्वेवोप[४]निवेशिता ॥ २९ ॥

 येति ॥ या पूः । शत्रुघ्नः शोभनो राजा यस्याः पुरः सा सुराज्ञी । सुराज्ञ्या भावः सौराज्यम् । तेन प्रकाशाभिः प्रकाशमानाभिः पौराणां विभूतिभिरैश्वर्यैः । स्वर्गस्याभिष्यन्दोऽतिरिक्तजनः । तस्य वमनमाहरणं कृत्वोपनिवेशितोपस्थापितेव बभौ ॥ अत्र कौटिल्यः-“भूतपूर्वमभूतपूर्वं वा जनपदं परदेशप्रवाहेण स्वदेशाभिष्यन्दवमनेन वा निवेशयेत्” इति ।।

  तत्र सौधगतः पश्यन्यमुनां चक्रवाकिनीम् ।
  हेम[५]भक्तिमतीं भूमेः प्र[६]वेणीमिव पिप्रिये ॥३०॥

 तत्रेति ॥ तत्र मथुरायां सौधगतो हर्म्यारूढः स चक्रवाकिनीं चक्रवाकवतीं यमुनाम् । हेमभक्तिमतीं सुवर्णरचनावतीं भूमेः प्रवेणीं वेणीमिव ॥ “ वेणी प्रवेणी" इत्यमरः ॥ पश्यन्पिप्रिये प्रीतः ॥“प्रीङ् प्रीणने" इति धातोर्दैवादिकाल्लिट्॥ संप्रति रामसंतानवृत्तान्तमाह-

  सखा दशरथस्या[७]पि जनकस्य च म[८]न्त्रकृत् ।
  संचस्कारोभयप्रीत्या मैथिलेयौ यथाविधि ।। ३१॥

 सखेति ॥ दशरथस्य जनकस्य च सखा मन्त्रकृन्मन्त्रद्रष्टा स वाल्मीकिरपि । "सुकर्मपापमन्त्रपुण्येषु कृञः" इति किम् ॥ उभयोर्दशरथजनकयोः प्रीत्या स्नेहेन मैथिलेयौ मैथिलीपुत्रौ यथाविधि यथाशास्त्रं संचस्कार संस्कृतवान् । जातकर्मादिभिरिति शेषः॥ १ . २ . ३ . ४ . ५  ;

. ६ . ७ . ८ .


  1. पुरम्
  2. सा
  3. पौरसमृद्धिभिः
  4. विनिवेशिता
  5. हेमभक्तिमयीम्;हेमपङ्क्तिमयीम्;हेमप•ङ्क्तिमयीम्
  6. स वेणीम्
  7. अथ
  8. मन्त्रावित्