पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३१७

पुटमेतत् सुपुष्टितम्
( ३१५ )
पञ्चदशः सर्गः ।

  अथ जानपदो विप्रः शि[१]शुमप्राप्तयौवनम् ।
  अवतार्याङ्कश[२]य्यास्थं द्वारि चक्रन्द भूपतेः ॥ ४२ ॥

 अथेति ॥ अथ जनपदे भवो जानपदो विप्रः। कश्चिदिति शेषः । अप्राप्तयौवनं शिशुम् । मृतमिति शेषः । भूपते रामस्य द्वार्यङ्कशय्यास्थं यथा तथावतार्याङ्कस्थत्वेनैवावरोप्य चक्रन्द चुक्रोश ॥

  शोचनीयासि वसुधे या त्वं दशरथा[३]च्च्युता।
  रामहस्तम[४]नुप्राप्य कष्टात्कष्टतरं ग[५]ता ॥ ४३॥

 शोचनीयेति ॥ हे वसुधे, दशरथाच्च्युता या त्वं रामहस्तमनुप्राप्य कष्टात्कष्टतरं गता सती शोचनीयासि ॥

  श्रुत्वा तस्य शु[६]चो हेतुं गोप्ता जिह्वाय राघवः ।
  न ह्यकालभवो मृत्युरिक्ष्वाकुपदमस्पृशत् ॥ ४४ ॥

 श्रुत्वेति ॥ गोप्ता रक्षको राघवस्तस्य विप्रस्य शुचः शोकस्य हेतुं पुत्रमरणरूपं श्रुत्वा जिह्राय लज्जितः॥ कुतः । हि यस्मादकालभवो मृत्युरिक्ष्वाकूणां पदं राष्ट्रं नास्पृशत् । वृद्धे जीवति यवीयान्न म्रियत इत्यर्थः ॥

  स मुहूर्तं क्ष[७]मस्वेति द्विजमाश्वास्य दुःखितम् ।
  यानं सस्मार कौबेरं वैवस्वतजि[८]गीषया ॥४५॥

 स इति ॥ स रामो दुःखितं द्विजं मुहूर्तं क्षमस्वेत्याश्वास्य वैवस्वतस्यान्तकस्यापि जिगीषया जेतुमिच्छया कौबेरं यानं पुष्पकं सस्मार ॥

  आत्तशस्त्रस्तदध्यास्य प्रस्थितः स[९] रघूद्वहः ।
  उच्चचार पुरस्त[१०]स्य गूढरूपा सरस्वती ॥४६॥

 आत्तेति ॥ स रघूद्वहो राम आत्तशस्त्रः सन् । तत्पुष्पकमध्यास्य प्रस्थितः। अथ तस्य पुरो गूढरूपा सरस्वत्यशरीरा वागुच्चचारोद्बभूव ॥

  राजन्प्रजासु ते कश्चिदपचारः प्रवर्तते ।
  तम[११]न्विष्य प्रशमयेर्भवितासि ततः कृती॥४७॥

 राजन्निति ॥ हे राजन् । ते प्रजासु कश्चिदपचारो वर्णधर्मव्यतिरेकः प्रवर्तते|

तमपचारमन्विष्य प्रशमयेः। ततः कृती कृतकृत्यो भवितासि भविष्यसि ॥


  1. पुत्रम्
  2. शय्यायाः
  3. अनु
  4. अनुमाप्ता
  5. कृता
  6. वचः
  7. सहस्व
  8. जिघांसया
  9. चास्य
  10. अन्विष्यन्