पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३२१

पुटमेतत् सुपुष्टितम्
( ३१९ )
पञ्चदशः सर्गः ।

तदाद्याचिख्यासायाम्" इति नपुंसकत्वम् ॥अय्यते ज्ञायतेऽनेनेत्ययनम् । रामस्यायनं चरितं रामायणं रामायणाख्यं काव्यम् ॥ “पूर्वपदात्संज्ञायामगः" इति णत्वम्| उत्तरायणमितिवत् ॥ इतस्ततो जगतुः ॥ गायतेर्लिट् ॥

  वृत्तं रामस्य वाल्मीकेः कृतिस्तौ किंनरस्वनौ ।
  किं तद्येन मनो हर्तुमलं स्यातां न शृण्वताम् ॥५॥

 वृत्तमिति ॥ रामस्य वृत्तं वर्ण्यम् । वस्त्विति शेषः । वाल्मीकेः कृतिः काव्यम्| गेयमिति शेषः । तौ कुशलवौ किंनरस्वनौ किंनरकण्ठौ गायकौ ! पुनरिति शेषः । अतएव तत्किं येन निमित्तेन तौ शृण्वतां मनो हर्तुमलं शक्तौ न स्याताम् । सर्वं सरसमित्यर्थः॥

  रूपे गीते च माधुर्यं तयोस्तज्ज्ञैर्निवेदितम् ।
  ददर्श सानुजो रामः शुश्राव च कुतूहली ॥६५॥

 रूप इति ॥ ते जानन्तीति तज्ज्ञाः । तैस्तज्ज्ञैरभिनिवेदितं तयोः कुशलवयोः रूपे आकारे गीते च माधुर्यं रामणीयकं सानुजो रामः कुतूहली सानन्दः सन्यथासंख्यं ददर्श शुश्राव च ॥

  तद्गीतश्रवणैकाग्रा संसदश्रुमुखी बभौ ।
  हिमनिष्यन्दिनी प्रातर्निर्वातेव वनस्थली ॥६६॥

 तदिति ॥ तयोर्गीतश्रवण एकाग्रासक्ताश्रुमुखी । आनन्दादिति भावः । संसत्सभा। प्रातर्हिमनिष्यन्दिनी निर्वाता वातरहिता वनस्थलीव । बभौ शुशुभे । आनन्दपारवश्यानिष्पन्दमास्त इत्यर्थः ॥

  वयोवेषविसंवादि रामस्य च तयो[१]स्तदा ।
  जनता प्रेक्ष्य सादृश्यं ना[२]क्षिकम्पं व्यतिष्ठत ॥६७ ॥

 वय इति ॥ जनता जनानां समूहः ॥ “ग्रामजनबान्धुसहायेभ्यस्तल् " इति तल्पत्ययः ॥ वयोवेषाभ्यामेव विसंवादि विलक्षणं तदा तयोः कुशलवयो रामस्य च सादृश्यं प्रेक्ष्य । नास्त्यक्षिकम्पो यस्मिन्कर्मणि तद्यथा तथा ॥ नञर्थस्य नशब्दस्य बहुव्रीहिः ॥ व्यतिष्ठतातिष्ठत् ॥ “समवप्रविभ्रः स्थः" इत्यात्मनेपदम् ।। विस्मयादनिमिषमद्राक्षीदित्यर्थः ।।

  उभयोर्न तथा लोकः प्रावीण्येन विसिष्मिये।
  नृपतेः प्रीति[३]दानेषु वीतस्पृहतया यथा ॥ ६८॥

१ . २. ३ .


  1. च सा
  2. वीक्षापन्ना; वीक्ष्यापन्ना; व्रीडापन्ना; विस्मयेन
  3. प्रीतिदानेन