पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३३०

पुटमेतत् सुपुष्टितम्
( ३२८ )
रघुवंशे

  सा साधुसाधारणपार्थिवर्द्धेः स्थित्वा पुरस्तात्पुरुहूतभासः ।
  जेतुः परेषां जयशब्दपूर्वं तस्याञ्जलिं बन्धुमतो बबन्ध ॥५॥

 सेति॥सा वनिता साधुसाधारणपार्थिवर्द्धेः सज्जनसाधारणराज्यश्रियः पुरुहूतभास इन्द्रतेजसः परेषां शत्रूणां जेतुर्बन्धुमतस्तस्य कुशस्य पुरस्तात्स्थित्वा जयशब्दपूर्वं यथा तथाञ्जलिं बबन्ध ॥

  []थानपोढार्गलमप्यगारं छायामिवादर्शतलं प्रविष्टाम् ।
  सविस्मयो दाशरथेस्तनूजः प्रोवाच पूर्वार्धविसृष्टतल्पः॥ ६ ॥

 अथेति ॥ अथ सविस्मयः पूर्वार्धेन शरीरपूर्वभागेन विसृष्टतल्पस्त्यक्तशय्यो दाशरथेस्तनूजः कुशः । अनपोढार्गलमनुद्घाटितविष्कम्भमपि ॥ "तद्विष्कम्भेऽर्गलं न ना" इत्यमरः॥ अगारम् । आदर्शतलं छायामिव । प्रविष्टां तां वनितां प्रोवाचावदत् ॥

  लब्धान्तरा सावरणेऽपि गेहे योग[]प्रभावो न च लक्ष्यते ते ।
  बिभर्षि चाकारमनिर्वृतानां मृणालिनी हैममिवोपरागम् ॥७॥
  का त्वं शुभे कस्य परिग्रहो वा किं वा मदभ्यागमकारणं ते ।
  आचक्ष्व मत्वा वशिनां रघूणां मनः परस्त्रीविमुखप्रवृत्ति ॥८॥

 लब्धेति।का त्वमिति च॥ युग्मम् ॥ सावरणेऽपि गेहे लब्धान्तरा लब्धावकाशा। त्वमिति शेषः। योगप्रभावश्च ते न लक्ष्यते । मृणालिनी हैमं हिमकृतमुपरागमुपद्रवमिव । अनिर्वृत्तानां दुःखितानामाकारं बिभर्षि च । न हि योगिनां दुःखमस्तीति भावः ॥ किञ्च । हे शुभे, त्वं का कस्य वा परिग्रहः पत्नी । ते तव मदभ्यागमे कारणं वा किम् । वशिनां जितेन्द्रियाणां रघूणां मनः परस्त्रीषु विषये विमुखा प्रवृत्तिर्यस्य तत्तथाभूतं मत्वाचक्ष्व ॥

  तमब्रवीत्सा गुरुणानवद्या या नीतपौरा स्वपदोन्मुखेन ।
  तस्याः पुरः सम्प्रति वीतनाथां जानीहि राजन्नधिदेवतां माम्।।९।।

 तमिति ॥ सा वनिता तं कुशमब्रवीत् । अनवद्यादोषा या पूः स्वपदोन्मुखेन विष्णुपदोन्मुखेन गुरुणा त्वत्पित्रा नीतपौरा हे राजन्, मां सम्प्रति वीतनाथामनाथां तस्याः पुरो नगर्या अयोध्याया अधिदेवतां जानीहि ॥

  वस्वौकसारामभिभूय साहं सौराज्यबद्धोत्सवया विभूत्या
  समग्रशक्तौ त्वयि सूर्यवंश्ये सति प्रपन्ना करुणामवस्थाम्।।१०॥

 वस्वौकसारामिति ॥ साहं सौराज्येन राजन्वत्तया हेतुना बद्धोत्सवया


  1. तां सोऽनपोढार्गलम्
  2. प्रवेशः