पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३३३

पुटमेतत् सुपुष्टितम्
( ३३१ )
षोडशः सर्गः ।

 आवर्ज्य शाखाः सदयं च यासां पुष्पाण्युपात्तानि विलासिनीभिः ।
 वन्यैः पुलिन्दैरिव वानरैस्ताः क्लिश्यन्त उद्यानलता मदीयाः॥ १९ ॥

 आवर्ज्येति ॥ किंच । विलासिनीभिः सदयं शाखा लतावयवानावार्ज्यानमय्य यासां लतानां पुष्पाण्युपात्तानि गृहीतानि । ता मदीया उद्यानलताः । वन्यैः पुलिन्दैर्म्लेच्छविशेषैरिव वानरैः । उभयैरपीत्यर्थः । क्लिश्यन्ते पीड्यन्ते ॥ क्लिश्नातेः कर्मणि लट् ॥ "भेदाः किरातशबरपुलिन्दा म्लेच्छजातयः" इत्यमरः ॥

 रात्रावनाविष्कृतदीपभासः कान्तामुखश्रीवियुता दिवापि ।
 तिरस्क्रियन्ते कृमितन्तुजालैर्विच्छिन्नधू[]मप्रसरा गवाक्षाः ॥ २०॥

 रात्राविति ॥ रात्रावनाविष्कृतदीपभासः । दीपप्रभाशून्या इत्यर्थः । दिवापि दिवसेऽपि कान्तामुखानां श्रिया कान्त्या वियुता रहिता विच्छिन्नो नष्टो धूमप्रसरो येषां ते गवाक्षाः कृमितन्तुजालैर्लूतातन्तुवितानैस्तिरस्क्रियन्ते छाद्यन्ते ।

 बलिक्रियावर्जितसैकतानि स्नानीयसंसर्गमनाप्नुवन्ति ।
 उपान्तवानीरगृ[]हाणि दृष्ट्वा शून्यानि दूये सरयूज[]लानि ॥ २१ ॥

 बलिक्रियेति ॥ "बलिः पूजोपहारः स्यात्" इति शाश्वतः ॥ बलिक्रियावर्जितानि सैकतानि येषां तानि । स्नानीयानि स्नानसाधनानि चूर्णादीनि ॥ कृत्यल्युटो बहुलम्" इति करणेऽनीयर्प्रत्ययः ॥ स्नानीयसंसर्गमनाप्नुवन्ति सरयूजलानि शून्यानि रिक्तान्युपान्तेषु वानीरगृहाणि येषां तानि च दृष्ट्वा दूये परितप्ये ॥

 तदर्हसीमां वसतिं विसृज्य मामभ्युपैतुं कुलराजधानीम् ।
 हित्वा तनुं कारणमानुषीं तां यथा गुरुस्ते परमात्ममूर्तिम् ॥ २२ ॥

 तदिति ॥ तत्तस्मादिमां वसतीं कुशावतीं विसृज्य कुलराजधानीमयोध्यां मामभ्युपैतुमर्हसि ॥ कथमिव । ते गुरुः पिता रामस्तां प्रसिद्धां कारणवशान्मानुषीं तनुं मानुषमूर्तिं हित्वा परमात्ममूर्तिं यथा विष्णुमूर्तिमिव ॥

 तथेति तस्याः प्रणयं प्रतीतः प्रत्यग्रहीत्प्रा[]ग्रहरो रघूणाम् ।
 पूरप्यभिव्यक्तमुखप्रसादा शरीरबन्धेन तिरोबभूव ॥ २३ ॥

 तथेति ॥ रघूणां प्राग्रहरः श्रेष्ठः कुशस्तस्याः पुरः प्रणयं याच्ञां प्रतीतो हृष्टः संस्तथेति प्रत्यग्रहीत्स्वीकृतवान् ॥ पूः पुराधिदेवताप्यभिव्यक्तमुखप्रसादा सती । इष्टलाभादिति भावः । शरीरबन्धेन शरीरयोगेन । करणेन । तिरोबभूवान्तर्दधे । मानवं रूपं विहाय दैवं रूपमग्रहीदित्यर्थः ॥


  1. धूप.
  2. वनानि.
  3. तटानि.
  4. प्राग्रसरः.