पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३३४

एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३३२ )
रघुवंशे

  तदद्भुतं संसदि रात्रिवृत्तं प्रातर्द्विजेभ्यो नृपतिः शशंस ।
  श्रुत्वा त एनं कुलराजधान्या साक्षात्पतित्वे वृतमभ्यनन्दन्।।२४॥

तदिति ॥ नृपतिः कुशस्तदद्भुतं रात्रिवृत्तान्तं प्रातः संसदि सभायां द्विजेम्यः शशंस । ते द्विजाः श्रुत्वैनं कुशं कुलराजधान्या साक्षात्खयमेव पतित्वे विषये वृत मभ्यनन्दन् । पतित्वेन वृतोऽसीत्यपूजयन् । आशीभिरिति शेषः॥ अत्र गार्ग्य:- "दृष्ट्वा स्वप्नं शोभनं नैव सुप्यात्पश्चाद्दृष्टो यः स पाकं विधत्ते । शंसेदिष्टं तत्र साधु र्द्विजेभ्यस्ते चाशीभिः प्रीणयेयुर्नरेन्द्रम्" ॥ इदमपि स्वप्नतुल्यमिति भावः॥

  कुशावतीं श्रोत्रियसात्स कृत्वा यात्रानुकूलेऽहनि सावरोधः ।
  अनुद्रुतो वायुरिवाभ्रवृन्दैः सैन्यैरयोध्याभिमुखः प्रतस्थे ॥ २५॥

कुशावतीमिति ॥ स कुशः कुशावतीं श्रोत्रियेषु छान्दसेष्वधीनां श्रोत्रिय सात् ॥ " तदधीनवचने" इति सातिप्रत्ययः । श्रोत्रियश्छन्दोऽधीते" इति निपातः ॥ “श्रोत्रियच्छान्दसौ समौ " इत्यमरः ॥ कृत्वा यात्रानुकूलेऽहनि सा वरोधः सान्तःपुरः सन् । वायुरभ्रवृन्दैरिव । सैन्यैरनुद्रुतोऽनुगतः सन्नयोध्याभिमुखः प्रतस्थे॥

  सा केतुमालोपवना बृहद्भिर्विहारशैलानुगतेव नागैः ।
  सेना रथोदारगृहा प्रयाणे तस्याभवज्जंगमराजधानी ॥ २६ ॥

 सेति ॥ केतुमाला एवोपवनानि यस्याः सा बृहद्भिर्नागैर्गजैविहारशैलैः क्री डाशैलैरनुगतेव स्थिता । रथा एवोदारगृहा यस्याः सा सा सेना तस्य कुशस्य प्र याणे जंगमराजधानी संचारिणी नगरीवाभवद्बभूव ।।

  तेनातपत्रामलमण्डलेन प्रस्थापितः पूर्वनिवासभूमिम् ।
  बभौ बलौघः शशिनोदिते[१]न वेलामुदन्वानिव नीयमानः॥२७॥

 तेनेति ॥ आतपत्रमेवामलं मण्डलं बिम्बं यस्य तेन तेन कुशेन पूर्वनिवासभू मिमयोध्यां प्रति प्रस्थापितो बलौघः। आतपत्रवदमलमण्डलेनोदितेन शशिना वेलां नीयमानः प्राप्यमाणः । उदकमस्यास्तीत्युदन्वान् । उदधिरिव ।बभौ ॥ " उदन्वानुदधौ च " इति निपातनात्साधुः॥

  तस्य प्रयातस्य वरूथिनीनां पीडामपर्याप्तवतीव[२] सोढुम् ।
  वसुंधरा विष्णुपदं द्वितीयमध्यारुरोहेव रजश्छलेन ॥२८॥

 तस्येति॥प्रयातस्य प्रस्थितस्य तस्य कुशस्य वरूथिनीनां सेनानाम् ।कर्त्रीणाम्।


  1. उद्गतेन.
  2. विसोढुम्.