कुशस्य कुमुद्वतीसंगमं प्रस्तौति-
अथास्य रत्नग्रथितोत्तरीयमेकान्तपाण्डुस्तनलम्बिहारम् ।
निःश्वासहार्यांशुकमाजगाम घर्मः प्रि[१]यावेशमिवोपदेष्टुम् ॥४॥
अथेति ॥ अथास्य कुशस्य । रत्नैर्मुक्तामणिभिर्ग्रंथितान्युत्तरीयाणि यस्मिं स्तम् । एकान्तमत्यन्तं पाण्डोः स्तनयोर्लम्बिनो हारा यस्मिंस्तम् । निःश्वासहा र्याण्यतिमूक्ष्माण्यंशुकानि यत्र तम् । एवं शीतलप्रायं प्रियाया वेशं नेपथ्यमुपदे- टुमिव । घर्मो ग्रीष्म आजगाम ॥
अगस्त्यचिह्नादयनात्समीपं दिगुत्तरा भास्वति संनिवृत्ते ।
आनन्दशीतामिव बाष्पवृष्टिं हिमस्रुतिं हैमवतीं ससर्ज ॥४४॥
अगस्त्येति॥अगस्त्यश्चिह्नं यस्य तस्मादयनान्मार्गाद्दक्षिणायनाद्भास्वति समी पं संनिवृत्ते सति । उत्तरा दिक् । आनन्दशीतां बाष्पवृष्टिमिव । हैमवतीं हिमवत्सं बन्धिनी हिमस्रुतिं हिमनिष्यन्दं ससर्ज॥ अत्र प्रोषितप्रियासमागमसमाधिर्गम्यते ॥
प्रवृद्धतापो दिवसोऽतिमात्रमत्यर्थमेव क्षणदा च तन्वी।
उभौ विरोधक्रियया विभिन्नौ जायापती सानुशयाविवास्ताम्
प्रवृद्धेति ॥ अतिमात्रं प्रवृद्धतापो दिवसः । अत्यर्थमेवानल्पं तन्वी कृशा क्षणदा च । इत्येतावुभौ । विरोधक्रियया प्रणयकलहादिना विरोधाचरणेन विभिनौ सानुशयौ सानुतापौ जायापती दंपती इव । आस्ताम् । तयोरपि तापकार्य संभवात्तत्सदृशावभूतामित्यर्थः॥
दिने दिने शैवलवन्त्यघस्तात्सोपानपर्वाणि वि[२]मुञ्चदम्भः।
उद्दण्डपद्मं गृहदीर्घिकाणां नारीनितम्बद्वयसं बभूव ॥ १६ ॥
दिने दिन इति ॥ दिने दिने प्रतिदिनं शैवलवन्त्यधस्ताद्यानि सोपानानां पर्वाणि भङ्ग्यस्तानि विमुञ्चत् । अत एवोद्दण्डपद्मं गृहदीर्घिकाणामम्भः । नारी- नितम्बः प्रमाणमस्य नारीनितम्बद्वयसं बभूव । विहारयोग्यमभूदित्यर्थः॥ "प्रमाणे द्वयसच्-" इति द्वयसच्प्रत्ययः॥
वनेष्विति॥ वनेषु विजृम्भणेन विकासेनोद्गन्धिषूत्कटसौरभेषु॥"गन्धस्य-"
इत्यादिना समासान्त इकारादेशः ॥ सायंतनमल्लिकानां कुड्मलेषु सशब्दं