पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३४

पुटमेतत् सुपुष्टितम्
( ३२ )
रघुवंशे

राजलक्ष्मीं दधानः स राजा । अनाविष्कृतदानराजिर्बहिरप्रकटितमदरेखः । अन्तर्गता मदावस्था यस्य सोऽन्तर्मदावस्थः । तथाभूतो द्विपेन्द्र इव । आसीत् ॥

  लताप्रतानोद्ग्रथितैः स केशैरधिज्यधन्वा विचचार दावम् ।
  रक्षा[]पदेशान्मु[]निहोमधेनोर्वन्यान्विनेष्यन्निव दुष्टसत्त्वान् ॥८॥

 लतेति ॥ लतानां वल्लीनां प्रतानैः कुटिलतन्तुभिरुद्ग्रथिता उन्नमय्य ग्रथिता ये केशास्तैरुपलक्षितः ॥ “ इत्थंभूतलक्षणे" इति तृतीया ॥ स राजा । अधिज्यमारोपितमौर्वीकं धनुर्यस्य सोऽधिज्यधन्वा सन् ॥ “ धनुषश्च" इत्यनङादेशः ॥ मुनिहोमधेनो रक्षापदेशाद्रक्षणव्याजात् । वन्यान्वने भवान्दुष्टसत्त्वान्दुष्टजन्तून् ॥ द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु इत्यमरः ॥ विनेष्यञ्छिक्षयिष्यन्निव । दावं वनम् ॥ “वने च वनवह्नौ च दवो दाव इहेष्यते" इति यादवः ॥ विचचार । वने चचारेत्यर्थः ॥ “देशकालाध्वगन्तव्यः कर्मसंज्ञा ह्यकर्मणाम्" इति दावस्य कर्मत्वम् ॥

 “विसृष्ट-" इत्यादिभिः षड्भिः श्लोकैस्तस्य महामहिमतया द्रुमादयोऽपि राजोपचारं चक्रुरित्याह-

  विसृष्टपार्श्वानुचरस्य तस्य पार्श्वद्रुमाः पाशभृता समस्य ।
  उदीरयामासुरिवोन्मदानामालोकशब्दं वयसां विरावैः॥९॥

 विसृष्टेति ॥ विसृष्टाः पार्श्वानुचराः पार्श्ववर्तिनो जना येन तस्य । पाशभृता वरुणेन समस्य तुल्यस्य ।। “प्रचेता वरुणः पाशी" इत्यमरः ॥ अनुभावोऽनेन सूचितः ॥ तस्य राज्ञः पार्श्वयोर्द्रुमाः । उन्मदानामुत्कटमदानां वयसां खगानाम् ।। "खगवाल्यादिनोर्वयः" इत्यमरः ॥ विरावैः शब्दैः। आलोकस्य शब्दं वाचक- मालोकयेति शब्दम् । जयशब्दमित्यर्थः ॥ “ आलोको जयशब्दः स्यात्" इति विश्वः ॥ उदीरयामासुरिवावदन्निव । इत्युत्प्रेक्षा ॥

  मरुत्प्रयुक्ताश्च मरुत्सखाभं तमर्च्यमारादभिवर्तमानम् ।
  अवाकिरन्बाललताः प्रसूनैराचारलाजैरिव पौरकन्याः॥१०॥

 मरुदिति ॥ मरुत्प्रयुक्ता वायुना प्रेरिता बाललता आरात्समीपेऽभिवर्तमानम् ॥ “ आराद्दूरसमीपयोः" इत्यमरः ॥ मरुतो वायोः सखा मरुत्सखोऽग्निः ।

स इवाभातीति मरुत्सखाभम् ॥ “ आतश्चोपसर्गे" इति कप्रत्ययः ॥ अर्च्यं पूज्यं तं दिलीपं प्रसूनैः पुष्पैः । पौरकन्याः पौराश्च ताः कन्या आचारार्थैर्लाजै-


  1. उपदेशात्.
  2. गुरु.