पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३४१

एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३३९ )
षोडशः सर्गः ।

ट्टिनीभिः संनद्धाङ्गदसंघर्षिणीभिः सनूपुरक्षोभाणि सनूपुरस्खलनानि पदानि यासां ताभिरङ्गनाभिर्हेतुभिरुद्विग्नहंसा भीतहंसासीत् ॥

  []रस्पराभ्युक्षणतत्पराणां तासां नृपो मज्जनरागदर्शी ।
  नौसंश्रयः पार्श्वगतां किरातीमुपात्तबालव्यजनां बभाषे ।।५७॥

 परस्परेति ॥ नौसंश्रयः परस्परमभ्युक्षणे सेचने तत्पराणामासक्तानां तासां स्त्रीणां मज्जने रागोऽभिलापस्तदृशीं नृपः पार्श्वगतामुपात्तबालव्यजनां गृहीतचामरा किराती चामरग्राहिणी बभापे ॥ “किरातस्तु द्रुमान्तरे । स्त्रियां चामरवाहिन्यां मत्स्यजात्यन्तरे द्वयोः" इति केशवः॥

  पश्यावरोधैः शतशो मदीयैर्विगाह्यमानो गलिताङ्गरागैः ।
  संध्योदयः साभ्र इवैष वर्णं पुष्यत्यनेकं सरयूप्रवाहः॥ ५८ ॥

 पश्येति ॥ गलिताङ्गरागैर्मदीयैः शतशोऽवरोधैर्विगाह्यमानो विलोड्यमान एष सरयूप्रवाहः । साभ्रः समेघः संध्योदयः संध्याविर्भाव इव । अनेकं नानाविधं वर्णं रक्तपीतादिकं पुष्यति पश्य ॥ वाक्यार्थः कर्म ॥

  विलुप्तमन्तःपुरसुन्दरीणां यदञ्जनं नौललिताभिरद्भिः।
  तद्बध्नतीभिर्मदरागशोभां विलोचनेषु प्रतिमुक्तमासाम् ॥ ५९॥

 विलुप्तमिति ॥ नौलुलिताभिर्नौक्षुभिताभिरद्भिरन्तःपुरसुन्दरीणां यदञ्जनं कज्जलं विलुप्तं हृतं तदञ्जनं विलोचनेषु नयनेषु मदेन या रागशोभा तां बध्नतीभिर्घटयन्तीभिरद्भिरासां प्रतिमुक्तं प्रत्यर्पितम् ॥ प्रतिनिधिदानमपि तत्कार्यकारि त्वात्प्रत्यर्पणमेवेति भावः॥

  एता गुरुश्रोणिपयोधरत्वादात्मानमुद्वोढुम[]शक्नुवत्यः ।
  गाढाङ्गदैर्बाहुभिरप्सु बालाः क्लेशोत्तरं रागवशात्प्लवन्ते ॥६॥

 एता इति ॥गुरु दुर्वहं श्रोणिपयोधरं यस्यात्मन इति विग्रहः । गुरुश्रोणिप योधरत्वादात्मानं शरीरमुद्रोढुमशक्नुवत्यः एता बाला गाढाङ्गदैः श्लिष्टाङ्गदैर्बाहुभिः क्लेशोत्तरं दुःखपायं यथा तथा रागवशात्क्रीडाभिनिवेशपारतन्त्र्यात्प्लवन्ते तरन्ति ॥

  अमी शिरीषप्रसवावतंसाः प्रभ्रंशिनो वारिविहारिणीनाम् ।
  पारिप्लवाःस्रोतसिनिम्नगायाः शैवाललोलाश्छलयन्ति मीनान् ६१

 अमी इति॥वारिविहारिणीनामासां प्रभ्रंशिनो भ्रष्टा निम्नगायाः स्रोतसि

पारिप्लवाश्चञ्चलाः ॥"चञ्चलं तरलं चैव पारिप्लवपरिप्लवे" इत्यमरः ॥ अमी शिरीष-


  1. परस्पराक्षेपण.
  2. अशक्नुवन्त्यः.