वर्णोदकैः काञ्चनशृ[१]ङ्गमुक्तैस्तमायताक्ष्यः प्रणयादसिञ्चन् ।
तथागतः सोऽतितरां बभासे सधातुनिष्यन्द इवाद्रिराजः॥७०॥
वर्णोदकैरिति ॥ तं कुशमायताक्ष्यः काञ्चनस्य शृङ्गैर्मुक्तानि तैर्वर्णोदकैः कुङ्कुमादिवर्णद्रव्यसहितोदकैः प्रणयात्स्नेहादसिञ्चन् ॥ तथागतस्तथास्थितः । वर्णोंदकसिक्त इत्यर्थः । स कुश: सधातुनिष्यन्दो गैरिकद्रव्ययुक्तोऽद्रिराज इव । अतितरां बभासेऽत्यर्थं चकासे ॥
तेनावरोधप्रमदासखेन विगाहमानेन सरिद्वरां ताम् ।
आकाशगङ्गारतिरप्सरोभिर्वृतो मरुत्वाननुयातलीलः ॥७१ ॥
तेनेति ॥ अवरोधप्रमदासखेनान्तःपुरसुन्दरीसहचरेण तां सरिद्वरां सरयूं विगाहमानेन तेन कुशेनाकाशगङ्गायां रतिः क्रीडा यस्य सोऽप्सरोभिर्वृत आवृतो मरुत्वानिन्द्रोऽनुयातलीलोऽनुकृतश्रीः। अभूदिति शेषः । इन्द्रमनुकृतवानित्यर्थः ॥
यत्कुम्भयोनेरधिगम्य रामः कुशाय राज्येन समं दिदेश।
तदस्य जैत्राभरणं विहर्तुरज्ञातपातं सलिले ममज्ज ॥ ७२ ।।
यदिति ॥ यदाभरणं रामः कुम्भयोनेरगस्त्यादधिगम्य प्राप्य कुशाय राज्येन समं दिदेश ददौ । राज्यसममूल्यमित्यर्थः । सलिले विहर्तुः क्रीडितुरस्य कुशस्य तज्जैत्राभरणं जयशीलमाभरणमज्ञातपातं सन्ममज्ज बुबोड ॥
स्नात्वा यथाकाममसौ सदारस्तीरोपकार्यां गतमात्र एव ।
दिव्येन शून्यं वलयेन बाहु[२]मपोढनेपथ्यविधिर्ददर्श ॥७३ ॥
स्नात्वेति ॥ असौ कुशः सदारः सन्यथाकामं यथेच्छं स्नात्वा विगाह्य । तीरे योपकार्या पूर्वोक्ता तां गतमात्रो गत एवापोढनेपथ्यविधिरकृतप्रसाधन एव दिव्येन वलयेन शून्यं बाहुं ददर्श ॥
जयेति ॥ यतः कारणात्तदाभरणं जयश्रियः संवननं वशीकरणम् ॥ "वशक्रिया संवननम्” इत्यमरः ।। यस्माच्च गुरुणा पित्रामुक्तपूर्वं पूर्वमामुक्तम् । धृतमित्यर्थः ॥ सुप्सुपेति समासः ॥ अतो हेतोरस्याभरणस्य भ्रंशं नाशं न सेहे। लोभान्न। कुतः। हि यस्माद्धीरो विद्वान्स कुशस्तुल्यानि पुष्पाण्याभरणानि च यस्य
सः ।पुष्पेष्विभरणेषु धृतेषु निर्माल्यबुद्धिं करोतीत्यर्थः ॥