पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३४५ )
षोडशः सर्गः ।

 तदिति॥तदेतदाभरणमाजानुविलम्बिना दीर्येण । ज्याघातेन या रेखारेखाकारा ग्रन्थयस्तासां किणं चिन्हं तदेव लाञ्छनं यस्य तेन । भूमे रक्षायाः परिघेण रक्षार्गलेन ॥"परिघोयोगभेदास्त्रमुद्गरेऽर्गलघातयोः" इत्यमरः॥ अंसलेन बलवता ते भुजेन पुनर्योगं संगतिमुपैतु ॥ एतैर्विशेषणैर्महाभाग्यशौर्यधुरंधरत्वबलवत्त्वादि गम्यते ॥

  इमां स्वसारं च यवीयसी मे कुमुद्वतीं नार्हसि नानुमन्तुम् ।
  []त्मापराधं नुदती चिराय शुश्रूषया पार्थिव पादयोस्ते ॥८५॥

 इमामिति ॥ किंच । हे पार्थिव, ते तव पादयोश्चिराय शुश्रूषया परिचर्यया॥ शुश्रूषा श्रोतुमिच्छायां परिचर्याप्रदानयोः" इति विश्वः॥ आत्मापराधमाभरणग्रहणरूपं नुदतीम् । परिजिहीर्षन्तीमित्यर्थः॥"आशंसायां भूतवच्च" इति चकाराद्वर्तमानार्थे शतृप्रत्ययः॥ “आच्छीनद्योर्नुम्" इत्यस्य वैकल्पिकत्वान्नुमभावः ॥ इमां मे यवीयसीं कनिष्ठां स्वसारं भगिनीं कुमुद्वतीमनुमन्तुं नार्हसीति न । अर्हस्येवेत्यर्थः॥

  इत्यूचिवानु[]पहृताभरणः क्षितीशं
   श्लाघ्यो भवान्स्वजन इत्य[]नुभाषितारम् ।
  संयोजयां विधिवदास स[]मेतबन्धुः
   कन्यामयेन कुमुदः कुलभूषणेन ॥८६॥

 इतीति ॥ इति पूर्वश्लोकोक्तमूचिवानुक्तवान् ॥ ब्रुवः क्वसुः ॥ उपहृताभरणः प्रत्यर्पिताभरणः कुमुदः । हे कुमुद, भवाञ्श्लाघ्यः स्वजनो बन्धुः। इत्यनुभाषितारमनुवक्तारं क्षितीशं कुशं समेतबन्धुर्युक्तबन्धुः सन्कन्यामयेन कन्यारूपेण कुलयोर्भूषणेन विधिवत्संयोजयामास ॥ न केवलं तदीयमेव किंतु स्वकीयमपि भूषणं तस्मैदत्तवानितिध्वनिः॥ आम्पत्ययानुप्रयोगयोर्व्यवधानं तु प्रागेव समाहितम् ॥

  तस्याः स्पृष्टे मनुजपतिना साहचर्याय हस्ते
   माङ्गल्योर्णावलयिनि पुरः पावकस्योच्छिखस्य ।
  दिव्यतूर्स्यर्ध्वनिरुदचरद्व्यश्नुवानो दिगन्ता-
   न्गन्धोदग्रं तदनु ववृषुः पुष्पमाश्चर्यमेघाः॥ ८७ ।।

 तस्या इति ॥मनुजपतिना कुशेन साहचर्याय । सहधर्माचरणायेत्यर्थः । माङ्गल्या मङ्गले साधुर्योर्णा मेषादिलोम ॥ " ऊर्णा मेषादिलोम्नि स्यात् " इत्यमरः ॥

अत्र लक्षणया तन्निर्मितं सूत्रमुच्यते। तया वलयिनि वलयवति तस्याः कुमुद्वत्याः हस्ते


  1. निजापराधम्.
  2. उपचिताभरणः; उपहिताभरणः.
  3. अभिभाषितारम्.
  4. तमेकबन्धुम्.