पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३५०

एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३४८ )
रघुवंशे

  तयोर्दिवस्पतेरासीदेकः सिंहासनार्धभाक् ।
  द्वितीया[१]पि सखी शच्याः पारिजातांश[२]भागिनी॥७॥

 तयोरिति ॥ तयोः कुशकुमुद्वत्योर्मध्य एकः कुशो दिवस्पतेरिन्द्रस्य सिंहासनार्धं सिंहासनैकदेशः। तद्भागासीत् । द्वितीया कुमुद्वत्यपि शच्या इन्द्राण्याः पारिजातांशस्य भागिनी ग्राहिणी ॥ "संपृच-" इत्यादिना भजेर्घिनुण्प्रत्ययः ॥ सख्यासीत् ॥ कस्कादित्वाद्दिवस्पतिः साधुः ॥

  तदात्मसंभवं राज्ये मन्त्रिवृद्धाः समादधुः ।
  स्मरन्तः पश्चिमामाज्ञां भर्तुः सङ्ग्रामयायिनः ॥ ८॥

 तदिति ॥ सङ्ग्रामयायिनः सङ्ग्रामं यास्यतः॥ आवश्यकार्थे णिनिः । " अकेनोर्भविष्यदाधर्ण्ययोः" इति षष्ठीनिषेधः ॥ भर्तुः स्वामिनः कुशस्य पश्चिमामन्तिमामाज्ञांविपर्यये पुत्रोऽभिषेक्तव्य इत्येवंरूपां स्मरन्तो मन्त्रिवृद्धास्तदात्मसंभवमतिथिं राज्ये समादधुर्निदधुः॥

  ते तस्य कल्पयामासुरभिषेकाय शिल्पिभिः।
  वि[३]मानं नवमुद्वेदि चतुःस्तम्भप्रतिष्ठितम् ॥९॥

 त इति ॥ ते मन्त्रिणस्तस्यातिथेरभिषेकाय शिल्पिभिरुद्वेद्युन्नतवेदिकं चतुःस्तम्भप्रतिष्ठितं चतुर्षु स्तम्भेषु प्रतिष्ठितं नवं विमानं मण्डपं कल्पयामासुः कारयामासुः॥

  तत्रैनं हेमकुम्भेषु संभृतैस्तीर्थवारिभिः ।
  उपतस्थुः प्रकृतयो भद्रपीठोप[४]वेशितम् ॥१०॥

 तत्रेति ॥ तत्र विमाने भद्रपीठे पीठविशेष उपवेशितमेनमतिथिं हेमकुम्भेषु संभृतैः संगृहीतैस्तीर्थवारिभिः । करणैः । प्रकृतयो मन्त्रिण उपतस्थुः ॥

  नदद्भिः स्निग्धगम्भीरं तूर्यैराहतपुष्करैः।
  अन्वमीयत कल्याणं तस्याविच्छिन्नसं[५]तति ॥ ११ ॥

 नदद्भिरिति ॥ आहतं पुष्करं मुखं येषां तैः ॥ “पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखेऽपि च" इत्यमरः ॥ स्निग्धं मधुरं गम्भीरं च

नदद्भिस्तूर्यैस्तस्यातिथेरविच्छिन्नसंतत्यविच्छिन्नपारंपर्यं कल्याणं भावि शुभमन्वमीयतानुमितम् ॥


  1. च.
  2. अंशभाजिनी.
  3. वितानम्.
  4. उपशोभितम्.
  5. संततेः..