पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३५१

एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३४९ )
सप्तदशः सर्गः ।

  दूर्वायवाङ्कुरप्लक्षत्वगभिन्नपुटोत्तरान् ।
  ज्ञा[१]तिवृद्धैः प्रयुक्तान्स[२] भेजे नीराजनाविधीन् ।॥ १२ ॥

 दूर्वेति ॥ सोऽतिथिः । दूर्वाश्च यवाङ्कुराश्च प्लक्षत्वचश्चाभिन्नपुटा बालपल्लवाश्चोत्तराणि प्रधानानि येषु तान् ॥ अभिन्नपुटानि मधूकपुष्पाणीति केचित् । कमलानीत्यन्ये ॥ ज्ञातिषु ये वृद्धास्तैः प्रयुक्तानीराजनाविधीन्भेजे ॥

  पुरोहितपुरोगास्तं जिष्णुं जैत्रैरथर्वभिः ।
  उपचक्रमिरे पूर्वमभिषेक्तुं द्वि[३]जातयः ॥ १३ ॥

 पुरोहितेति ॥ पुरोहितपुरोगाः पुरोहितप्रमुखा द्विजातयो ब्राह्मणा जिष्णुं जयशीलं तमतिथिं जैत्रैर्जयशीलैरथर्वभिर्मन्त्रविशेषै। करणैः। पूर्वमभिषेक्तुमुचक्रमिरे।।

  तस्यौघमहती मूर्ध्नि निपतन्ती व्यरोचत ।
  सशब्दमभिषेकश्रीगङ्गेव त्रि[४]पुरद्विषः॥ १४ ॥

 तस्येति॥तस्यातिथेमूर्ध्नि सशब्दं निपतन्त्योघमहती महाप्रवाहा । अभिषिच्यतेऽनेनेत्यभिषेको जलम् । स एव श्रीः। यद्वा तस्य श्रीः। समृद्धिस्त्रिपुरद्विषः शिवस्य मूर्ध्नि निपतन्ती गङ्गेव । व्यरोचत । त्रयाणां पुराणां द्वेष्टीति विग्रहः॥

  स्तूयमानः क्षणे तस्मिन्नलक्ष्यत स बन्दिभिः ।
  प्र[५]वृद्ध इव पर्जन्यः सा[६]रङ्गैरभिनन्दितः॥ १५॥

 स्तूयमान इति ॥ तस्मिन्क्षणेऽभिषेककाले बन्दिभिः स्तूयमानः सोऽतिथि: प्रवृद्धः प्रवृद्धवान् ॥ कर्तरि क्तः ॥ अतएव सारङ्गैश्चातकैरभिनन्दितः पर्जन्यो मेघ इव । अलक्ष्यत ॥

  तस्य सन्मन्त्रपूताभिः स्नानमद्भिः प्रतीच्छतः।
  ववृधे वैद्युतस्याग्नेर्वृष्टिसेकादिव द्युतिः॥ १६ ॥

 तस्येति ॥ सन्मन्त्रैः पूताभिः शुद्धाभिरद्भिः स्नानं प्रतीच्छतः कुर्वतस्तस्य । वृष्टिसेकात् । विद्युतोऽयं वैद्युतः । तस्याबिन्धनस्याग्नेरिव । द्युतिर्ववृधे ।

  स तावदभिषेकान्ते स्नातकेभ्यो ददौ वसु ।
  या[७]वतैषां समाप्येरन्यज्ञाः पर्याप्तदक्षिणाः ।। १७॥

 स इति ॥ सोऽतिथिरभिषेकान्ते स्नातकेभ्यो गृहस्थेभ्यस्तावत्तावत्परिमाणं


  1. जातिवृद्धप्रयुक्तान् .
  2. च.
  3. द्विजोत्तमाः.
  4. अद्रेरघापहा.अद्रेरघापहा.
  5. प्रवृष्टः.
  6. चातकैः.
  7. यावदेषाम्.
    यावत्तेषाम,