त इति ॥ ते प्रसाधका मुक्तागुणेन मौक्तिकसरेणोन्नद्धमुद्बद्धमन्तर्गतस्रजमस्यातिथेर्मौलिं धम्मिलं प्रभामण्डलशोभिना पद्मरागेण माणिक्येन प्रत्युपुः प्रत्युप्तं चक्रुः ॥
चन्दनेनाङ्गरागं च मृगनाभिसुगन्धिना ।
समापय्य ततश्चक्रुः पत्रं विन्यस्तरोचनम् ॥ २४ ॥
चन्दनेनेति ॥ किंच । मृगनाभ्या कस्तूरिकया सुगन्धिना चन्दनेनाङ्गरागमङ्गविलेपनं समापय्य समाप्य ततोऽनन्तरं विन्यस्ता रोचना गोरोचना यस्मिंस्तत्पत्रं पत्ररचनं चक्रुः ॥
आमुक्ताभरणः स्रग्वी हंसचिह्नदु[५]कूलवान् ।
आसीदतिशयप्रेक्ष्यः स राज्यश्रीवधूवरः ॥ २५ ॥
आमुक्तेति ॥ आमुक्ताभरण आसञ्जिताभरणः । स्रजोऽस्य सन्तीति स्रग्वी ॥ "अस्मायामेधास्रजो विनिः" इति विनिप्रत्ययः ॥ हंसाश्चिह्नमस्येति हंसचिह्नं यद्दुकूलं तद्वान् ॥ अत्र बहुव्रीहिणैवार्थसिद्धेर्मतुबानर्थक्येऽपि सर्वधनीत्यादिवत्कर्मधारयादपि मत्वर्थीयं प्रत्ययमिच्छन्ति । एवमन्यत्रापि द्रष्टव्यम् ॥ राज्यश्रीरेव वधूर्नवोढा तस्या वरो वोढा ॥ "वधूः स्नुषा नवोढा स्त्री वरो जामातृषिङ्गयोः" इति विश्वः ॥ सोऽतिथिरतिशयेन प्रेक्ष्यो दर्शनीय आसीत् । वरोऽप्येवंविशेषणः ॥
नेपथ्यदर्शिनश्छाया तस्यादर्शे हिरण्मये ।
विरराजोदिते सूर्ये मे[६]रौ कल्पतरोरिव ॥ २६ ॥
नेपथ्येति ॥ हिरण्मये सौवर्ण आदर्शे दर्पणे नेपथ्यदर्शिनो वेषं पश्यतस्तस्यातिथेश्छाया प्रतिबिम्बम् । उदिते सूर्ये दर्पणकल्पे मेरौ यः कल्पतरुस्तस्य छायेव । विरराज ॥ तस्य सूर्यसंक्रान्तबिम्बस्य संभवान्मेरावित्युक्तम् ॥
स राजककुदव्यग्रपाणिभिः पार्श्ववर्तिभिः ।
ययावुदीरितालोकः सुधर्मानवमां सभाम् ॥ २७ ॥
स इति ॥ सोऽतिथी राजककुदानि राजचिह्नानि छत्रचामरादीनि ॥ "प्राधान्ये
राजलिङ्गे च वृषाङ्के ककुदोऽस्त्रियाम्" इत्यमरः ॥ तेषु व्यग्राः पाणयो येषां तैः पार्श्ववर्तिभिर्जनैरुदीरितालोक उच्चारितजयशब्दः ॥ "आलोको जयशब्दः स्यात्" इति