हलायुधः ॥ सुधर्माया देवसभाया अनवमामन्यूनां सभामास्थानीं ययौ ॥ "स्यात्सुधर्मा देवसभा" इत्यमरः॥
वितानसहितं तत्र भेजे पैतृकमासनम् ।
चूडामणिभिरुद्धृष्टपादपीठं म[१]हीक्षिताम् ॥ २८ ॥
वितानेति॥तत्र सभायां वितानेनोल्लोचेन सहितम् ॥ “अस्त्री वितानमुल्लोचे" इत्यमरः ॥ महीक्षितां राज्ञां चूडामणिभिः शिरोरत्नैरुद्धृष्टमुल्लिखितं पादपीठं यस्य तत्। पितुरिदं पैतृकम् ॥"ऋतष्ठञ्' इति ठञ्प्रत्ययः॥ आसनं सिंहासनं भेजे ॥
शुशुभे तेन चाक्रान्तं म[२]ङ्गलायतनं महत् ।
श्रीवत्सलक्षणं वक्षः कौस्तुभेनेव कैशवम् ॥ २९ ॥
शुशुभ इति॥तेन चाक्रान्तम् । श्रीवत्सो नाम गृहविशेषः । तल्लक्षणं श्रीवत्सरूपम् । “श्रीवत्सनन्द्यावर्तादिविच्छेदा बहवो द्वयोः" इति सज्जनः ॥ महदधिकं मङ्गलायतनं मङ्गलगृहं सभारूपम् । कौस्तुभेन मणिनाक्रान्तं श्रीवत्सलक्षणम् । केशवस्येदं कैशवम् । वक्ष इव । शुशुभे ॥
बभाविति ॥ सोऽतिथिः कुमारत्वाद्वाल्याद्भूयो यौवराज्यमवाप्यैवानन्तरम् । अधिराजस्य भाव आधिराज्यं महाराज्यमवाप्य । रेखाभावादर्धेन्दुत्वमवाप्यैव सामग्र्यमुपारूढः पूर्णतां गतश्चन्द्रमा इव । बभौ इति व्याख्यानम् । तदपि यौवराज्याभावनिश्चये ज्याय एव ॥
प्रसन्नमुखरागं तं स्मि[५]तपूर्वाभिभाषिणम् ।
मूर्तिमन्तममन्यन्त विश्वासमनुजीविनः ॥ ३१॥
प्रसन्नेति॥प्रसन्नो मुखरागो मुखकान्तिर्यस्य तं स्मितपूर्वं यथा तथाभिभाषिणमाभाषणशीलं तमतिथिमनुजीविनो मूर्तिमन्तं विग्रहवन्तं विश्वासं विस्रम्भममन्यन्त ॥ "समौ विश्वासविस्रम्भौ" इत्यमरः ॥
स पुरं पुरुहूतश्रीः कल्पद्रुमनिभध्वजाम् ।
क्रममाणश्चकार द्यां नागेनैरा[६]वतौजसा ॥ ३२ ॥