पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३५६

पुटमेतत् सुपुष्टितम्
( ३५४ )
रघुवंशे

 यावदिति ॥अभिषेकजलैराप्लुता सिक्ता वेदिरभिषेकवेदिर्यावन्नाश्यायते न शुष्यति ॥ कर्तरि लट् ॥ तावदेवास्य राज्ञो दुःसह प्रतापो वेलान्तं वेलापर्यन्तं प्राप॥

  वसिष्ठस्य गुरोर्मन्त्राःसायकास्तस्य धन्विनः ।
  किं तत्साध्यं यदुभये साधयेयुर्न संगताः॥ ३८॥

 वसिष्ठस्येति ॥ गुरोर्वसिष्ठस्य मन्त्राः। धन्विनस्तस्यातिथेः सायकाः। इत्युभये संगताः सन्तो यत्साध्यं न साधयेयुस्तत्तादृक्साध्यं किम् । न किंचिदित्यर्थः ॥ तेषामसाध्यं नास्तीति भावः॥

  स धर्मस्थसखः शश्वदर्थिप्रत्यर्थिनां स्वयम् ।
  ददर्श सं[]शयच्छेद्यान्व्यवहारानतन्द्रितः॥ ३९ ॥

 स इति ॥ धर्मे तिष्ठन्तीति धर्मस्थाः सभ्याः।"राज्ञा सभासदः कार्या रिपौ मित्रे च ये समाः" इत्युक्तलक्षणाः । तेषां सखा धर्मस्थसखः । तत्सहित इत्यर्थः । अतन्द्रितोऽनलसः स नृपः शश्वत् । अन्वहमित्यत्यर्थः । अर्थिनां साध्यार्थवतां प्रत्यर्थिनां तद्विरोधिनां च संशयच्छेद्यान्संशयाद्धेतोच्छेद्यान्परिच्छेद्यान् । संदिग्धत्वादवश्यनिर्णेयानित्यर्थः । व्यवहारानृणादानादिविवादान्स्वयं ददर्शानुसंदधौ । न तु प्राड्विवाकमेव नियुक्तवानित्यर्थः । अत्र याज्ञवल्क्यः “व्यवहारान्नृपः पश्येद्विद्वद्भिर्ब्राह्मणैः सह ।" इति ॥

  ततः परमभिव्यक्तसौमनस्यनिवेदितैः।
  युयोज पाकाभिमुखैर्भृत्यान्विज्ञापनाफलैः॥ १० ॥

 तत इति ॥ ततः परं व्यवहारदर्शनानन्तरं भृत्याननुजीविनः। अभिव्यक्तं मुखप्रसादादिलिङ्गैः स्फुटीभूतं यत्सौमनस्यं स्वामिनः प्रसन्नत्वं तेन निवेदितैः सूचितैः पाकाभिमुखैः सिद्ध्युन्मुखैर्विज्ञापनानां विज्ञप्तीनां फलैः प्रेप्सितार्थैर्युयोज योजयामास॥अत्र बृहस्पतिः-नियुक्तः कर्मनिष्पत्तौ विज्ञप्तौ च यदृच्छया । भृत्यान्धनैर्मानयंस्तु नवोऽप्यक्षोभ्यतां व्रजेत्" इति ॥ कविश्च वक्ष्यति-"अक्षोभ्यः-"(१७।४४) इति । अत्र सौमनस्यफलयोजनादिभिर्नृपस्य वृक्षसमाधिर्ध्वन्यत इत्यनुसन्धेयम् ॥

  प्रजास्तद्गुरुणा नद्यो नभसेव विवर्धिताः।
  तस्मिंस्तु[] भूयसीं वृद्धिं नभस्ये ता इवाययुः॥४१॥

 प्रजा इति ॥ प्रजास्तस्यातिथेर्गुरुणा पित्रा कुशेन । नभसा श्रावणमासेन नद्य इव । विवर्धिताः । तस्मिन्नतिथौ तु नभस्ये भाद्रपदे मासे ता इव नद्य इव

भूयसीं वृद्धिमभ्युदयमाययुः। प्रजापोषणेन पितरमतिशयितवानित्यर्थः ॥


  1. संशयच्छेदान् ; संशयच्छेत्ता; संशयच्छेदि.
  2. च.