सर्पस्येति ॥ सर्पस्य शिरोरत्नमिव । अस्य राज्ञः शक्तित्रयं परः शत्रुर्न चकर्ष । स तु परस्माच्छत्रोस्तच्छक्तित्रयम् । अयस्कान्तो मणिविशेष आयसं लोहविकारमिव । चकर्ष ॥
वापीष्विति ॥ स्रवन्तीषु नदीषु वापीषु दीर्घिकासुस्विव ॥ “वापी तु दीर्घिका" इत्यमरः ॥ वनेष्वरण्येषूपवनेष्वारामेष्विव ॥ "आरामः स्यादुपवनम्" इत्यमरः ॥ अद्रिषु स्वकीयेषु वेश्मस्विव । सार्था वणिक्प्रभृतयः स्वैरं स्वेच्छया चेरुश्चरन्ति स्म ॥
तपो रक्षन्स विघ्नेभ्यस्तस्करेभ्यश्च संपदः ।
यथास्वमाश्रमैश्चक्रे वर्णैर[३]पि षडंशभाक् ।। ६५॥
तप इति ॥ विघ्नेभ्यस्तपो रक्षन् । तस्करेभ्यः संपदश्च रक्षन् । स राजाश्रमैर्ब्रह्मचर्यादिभिर्वर्णैरपि ब्राह्मणादिभिश्च यथास्वं स्वमनतिक्रम्य षडंशभाक्चक्रे । यथाक्रममाश्रमैस्तपसो वर्णैः संपदां च षष्ठांशभाक्कृत इत्यर्थः । षष्ठोंऽशः पडंशः । संख्याशब्दस्य वृत्तिविषये पूरणार्थत्वमुक्तं प्राक् ॥
खनिभिः सुषुवे रत्नं क्षेत्रैः सस्यं वनैर्गजान् ।
दिदेश वेतनं तस्मै रक्षासदृशमेव भूः॥६६॥
खनिभिरिति ॥ भूर्भूमिस्तस्मै राज्ञे रक्षासदृशं रक्षणानुरूपमेव वेतनं भृतिं दिदेश ददौ । कथम् । खनिभिराकरैः ॥ “खनिः स्त्रियामाकरः स्यात्" इत्यमरः ।। रत्नं माणिक्यादिकं सुषुवेऽजीजनत् । क्षेत्रैः सस्यम् । वनैर्गजान्हस्तिनः सुषुवे ॥
स[४] गुणानां बलानां च षण्णां षण्मुखविक्रमः।
बभूव विनियोगज्ञः साधनीयेषु वस्तुषु ॥ ६७ ॥
स इति ॥ षण्मुखविक्रमः स राजा षण्णां गुणानां संधिविग्रहादीनां बलानां मूलभृत्यादीनां च साधनीयेषु वस्तुषु साध्येष्वर्थेषु विनियोगं जानातीति । विनियोगस्य ज्ञ इति वा । विनियोगज्ञः ॥ कर्मविवक्षायामुपपदसमासः । “आतोऽनुपसर्गे कः” इति कप्रत्ययः । शेषविवक्षायां षष्ठीसमासः। “इगुपध-" इत्यादिना कप्रत्ययः॥ बभूव ॥ “इदमत्र प्रयोक्तव्यम्" इत्याद्यज्ञासीदित्यर्थः ॥
इति क्रमात्प्रयुञ्जानो रा[५]जनीतिं चतुर्विधाम् ।
आ तीर्थादप्रतीघातं स तस्याः फलमानशे ॥ ६८॥