पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३६५

पुटमेतत् सुपुष्टितम्
( ३६३ )
सप्तदशः सर्गः ।

 पञ्चममिति ॥ तम् । राजानमिति शेषः । साधर्म्ययोगतो यथाक्रमं लोकसंरक्षणपरोपकारभूधारणरूपसमानधर्मत्वबलाल्लोकपालानामिन्द्रादीनां चतुर्णां पञ्चममूचुः । महतां भूतानां पृथिव्यादीनां पञ्चानां षष्ठमूचुः । कुलभूभृतां कुलाचलानां महेन्द्रमलयादीनां सप्तानामष्टममूचुः ।।

  दूरापवर्जितच्छत्रैस्तस्याज्ञां शासनार्पिताम् ।
  दधुःशिरोभिर्भूपाला देत्र्[१]वाः पौरंदरीमिव ॥७९॥

 दूरेति ॥ भूपालाः शासनेषु पत्रेष्वर्पितामुपन्यस्तां तस्य राज्ञ आज्ञाम् । देवाः पौरंदरीमैन्द्रीमाज्ञामिव । दुरापवर्जितच्छत्रैर्दूरात्परिह्रतातपत्रैः शिरोभिर्दधुः॥

  ऋत्विजः स तथानर्च दक्षिणाभिर्महाक्रतौ।
  यथा साधारणीभूतं नामास्य धनदस्य च ॥८०॥

 ऋत्विज इति ॥स राजा महाक्रतावश्वमेधेऽर्त्विजोयाजकान्दक्षिणाभिस्तथानर्चयामास ॥ अर्चतेर्भौवादिकाल्लिट् ॥ यथास्य राज्ञो धनदस्य च नाम साधारणीभूतमेकीभूतम् । उभयोरपि धनदसंज्ञा यथा स्यात्तथेत्यर्थः ॥

  इन्द्राद्वृष्टिर्नियमितगदोद्रेकवृत्तिर्यमोऽभू-
   द्यादोनाथः शिवजलपथः कर्मणे नौचराणाम् ।
  पूर्वापेक्षी तदनु विदधे कोषवृद्धिं कुबेर-
   स्तस्मिन्दण्डोपनतचरितं भेजिरे लोकपालाः॥ ८१ ॥

 इन्द्रादिति ॥ इन्द्राद्वृष्टिरभूत्। यमो नियमिता निवारिता गदस्य रोगस्योद्रेक एव वृत्तिर्येन सोऽभूत् । यादोनाथो वरुणो नौचराणां नाविकानां कर्मणे संचाराय शिवजलपथः सुचरजलमार्गोऽभूत् । तदनु पूर्वापेक्षी रघुरामादिमहिमाभिज्ञः कुबेरः कोषवृद्धिं विदधे । इत्थं लोकपालास्तस्मिन्राज्ञि विषये दण्डोपनतस्य शरणागतस्य चरितं वृत्तिं भेजिरे ॥ “दुर्बलो बलवत्सेवी विरुद्धाच्छङ्कितादिभिः। वर्तेत दण्डोपनतो भर्तर्येवमवस्थितः" इति कौटिल्यः॥

इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये
अतिथिवर्णनो नाम सप्तदशः सर्गः ।



  1. शेषाम्,