अष्टादशः सर्गः।
यत्पादपांसुसंपर्कादहल्यासीदपांसुला ।
कारुण्यसिन्धवे तस्मै नमो वैदेहिबन्धवे ॥
स नैषधस्यार्थपतेः सु[१]तायामुत्पादयामास निषिद्धशत्रुः ।
अनूनसारं निषधान्नगेन्द्रात्पुत्रं यमाहुर्निषधाख्यमेव ॥ १ ॥
स इति ॥ निषिद्धशत्रुर्निवारितरिपुः सोऽतिथेर्नैषधस्य निषधदेशाधीश्वरस्यार्थपते राज्ञः सुतायां निषधान्निषदाख्यान्नगेन्द्रात्पर्वतादनूनसारमन्यूनबलं पुत्रमुत्पादयामास । यं पुत्रं निषधाख्यं निषधनामकमेवाहुः॥
तेनेति ॥ उरुवीर्येणातिपराक्रमेणातएव प्रजायै लोकरक्षणार्थं कल्पिष्यमाणेन तेन यूना निषधेन पितातिथिः । सुवृष्टियोगात्संपत्तिफलोन्मुखेन पाकोन्मुखेन सस्येन जीवलोक इव । ननन्द जहर्ष ॥
शब्दादि निर्विश्य सुखं चिराय तस्मिन्प्रतिष्ठापितराजशब्दः।
कौमुद्वतेयः कुमुदावदातैर्द्यामर्जितां कर्मभिरारुरोह ॥ ३॥
शब्दादीति ॥ कुमुद्वत्या अपत्यं पुमान्कौमुद्वतेयोSतिथिः शब्दादि शब्दस्पर्शादि सुखं सुखसाधनं विषयवर्गं निर्विश्योपभुज्य चिराय तस्मिन्निषधाख्ये पुत्रे प्रतिष्ठापितराजशब्दो दत्तराज्यः सन् । कुमुदावदातैर्निर्मलैः कर्मभिरश्वमेधादिभिर्जितां संपादितां द्यां स्वर्गमारुरोह ॥
पौत्रः कुशस्यापि कुशेशयाक्षः ससागरां सागरधीरचेताः।
एकातपत्रां भुवमेकवीरः पुरार्गलादीर्घभुजो बुभोज ॥४॥
पौत्र इति ॥ कुशेशयाक्षः शतपत्रलोचनः ॥ “शतपत्रं कुशेशयम्" इत्यमरः।। सागरधीरचेताः समुद्रगम्भीरचित्त एकवीरोऽसहायशूरः । पुरस्यार्गला कपाटविष्कम्भः ॥ "तद्विष्कम्भेऽर्गलं न ना" इत्यमरः ॥ तद्वद्दीर्घभुजः कुशस्य पौत्रो निषधोऽपि
ससागरामेकातपत्रां भुवं बुभोज पालयामास । “भुजोऽनवने" इत्युक्तेः परस्मैपदम् ॥