पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३७

पुटमेतत् सुपुष्टितम्
( ३५ )
द्वितीयः सर्गः ।

  आपीनभारोद्वहनप्रयत्नादृष्टिर्गुरुत्वाद्वपुषो नरेन्द्रः ।
  उभावलंचक्रतुरञ्चिताभ्यां तपोवनावृत्तिपथं गताभ्याम् ॥१८॥

 आपीनेति ॥ गृष्टिः सकृत्प्रसूता गौः॥ “गृष्टिः सकृत्प्रसूता गौः" इति हलायुधः ॥ नरेन्द्रश्च । उभौ यथाक्रमम् । आपीनमूधः ॥ "ऊधस्तु क्लीबमापीनम्" इत्यमरः ॥ आपीनस्य भारोद्वहने प्रयत्नात्प्रयासात् । वपुषो गुरुत्वादाधिक्याञ्च। अञ्चिताभ्यां चारुभ्यां गताभ्यां गमनाभ्यां तपोवनादावृत्तेः पन्थास्तं तपोवनावृत्तिपथम् ॥ "ऋक्पू:-"इत्यादिना समासान्तोऽप्रत्ययः॥ अलंचक्रतुर्भूषितवन्तौ।।

  वशिष्ठधेनोरनुयायिनं तमावर्तमानं वनिता वनान्तात् ।
  पपौ निमेषालसपक्ष्मपङ्क्तिरुपोषिताभ्यामिव लोचनाभ्याम् ॥१९॥

  वशिष्ठेति ॥ वशिष्ठधेनोरनुयायिनमनुचरं वनान्तादावर्तमानं प्रत्यागतं तं दिलीपं वनिता सुदक्षिणा निमेषेष्वलसा मन्दा पक्ष्मणां पङ्क्तिर्यस्याः सा । निर्निमेषा सतीत्यर्थः । लोचनाभ्याम् । करणाभ्याम् । उपोषिताभ्यामिव । उपवासो भोजननिवृत्तिः । तद्वद्भ्यामिव ॥ वसतेः कर्तरि क्तः ॥ पपौ ॥ यथोपोषितोऽतितृष्णया जलमधिकं पिबति तद्वदतितृष्णयाधिकं व्यलोकयदित्यर्थः॥

  पुरस्कृता वर्त्मनि पार्थिवेन प्रत्युद्गता पार्थिवधर्मपत्न्या ।
  तदन्तरे सा विरराज धेनुर्दिनक्षपामध्यगतेव संध्या ॥ २० ॥

 पुरस्कृतेति ॥ वर्त्मनि पार्थिवेन पृथिव्या ईश्वरेण ॥ "तस्येश्वरः" इत्यञ्प्रत्ययः ॥ पुरस्कृताग्रतः कृता ॥ धर्मस्य पत्नी धर्मपत्नी । धर्मार्थपत्नीत्यर्थः ॥ अश्वघासादिवत्तादर्थे षष्ठीसमासः॥ पार्थिवस्य धर्मपत्न्या प्रत्युद्गता सा धेनुस्तदन्तरे तयोर्दम्पत्योर्मध्ये । दिनक्षपयोर्दिनरात्र्योर्मध्यगता संध्येव । रराज ॥

  प्रदक्षिणीकृत्य पयस्विनीं तां सुदक्षिणा साक्षतपात्रहस्ता।
  प्रणम्य चानर्च विशालमत्स्याः शृङ्गान्तरं द्वारमिवा[१]र्थसिद्धेः॥२१॥

 प्रदक्षिणीकृत्येति ॥ अक्षतानां पात्रेण सह वर्तेते इति साक्षतपात्रौ हस्तौ यस्याः सा सुदक्षिणा पयस्विर्नी प्रशस्तक्षीरां तां धेनुं प्रदक्षिणीकृत्य प्रणम्य च । तस्या धेन्वा विशालं शृङ्गान्तरं शृङ्गमध्यम् । अर्थसिद्धेः कार्यसिद्धेर्द्वारं प्रवेशमार्गमिव । आनर्चार्चयामास । अर्चतेर्भौवादिकाल्लिट् ॥


  1. आत्मसिद्धेः.