पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३७०

पुटमेतत् सुपुष्टितम्
( ३६८ )
रघुवंशे

राजशब्दकरणमित्याशङ्कयान्यथा सुखोपभोगो दुर्लभ इत्याह-सुखोपरोधीति ॥ हि यस्माद्राज्ञां वृत्तं प्रजापालनादिरूपं सुखोपरोधि बहुलत्वात्सुखप्रतिबन्धकम् । अतएवोपरुद्धवृत्तम् । कारादिबद्धसदृशमित्यर्थः । उपरुद्धस्य स्वयमूढभारस्य च सुखं नास्तीति भावः॥

  तं रागबन्धिष्ववितृप्तमेव भोगेषु सौभाग्यविशेषभोग्यम् ।
  विलासिनीनामरतिक्षमापि जरा वृथा मत्सरिणी जहार ॥१९॥

 तमिति ॥ रागं बध्नन्तीति रागबन्धिनः ।रागप्रवर्तका इत्यर्थः । तेषु भोगेषु विषयेष्ववितृप्तमेव सन्तं किंच विलासिनीनां भोक्त्रीणां सौभाग्यविशेषेण सौन्दर्यातिशयेन हेतुना भोग्यं भोगार्हम् ॥ “चजोः कु घिण्यतोः” इति कुत्वम् ॥ तं पारियात्रं रतिक्षमा न भवतीत्यरतिक्षमापि । अतएव वृथा मत्सरिणी रतिक्षमासु । विलासिनीष्वित्यर्थः । जरा जहार वशीचकार ॥

  उन्नाभ इत्युद्गतनामधेयस्तस्यायथार्थोन्नतनाभिरन्ध्रः।
  सु[]तोऽभवत्पङ्कजनाभक[]ल्पः कृत्स्नस्य नाभिर्नृपमण्डलस्य ॥२०॥

 उन्नाभ इति ॥ तस्य शिलाख्यस्योनाभ इत्युद्गतनामधेयः प्रसिद्धनामायथार्थ यथा तथोन्नतं नाभिरन्धं यस्य सः । गम्भीरनाभिरियर्थः ॥ तदुक्तम् स्वरः सत्त्वं च नाभिश्च गाम्भीर्यं त्रिषु शस्यते" ॥ पङ्कजनाभकल्पो विष्णुसदृशः कृत्स्नस्य नृपमण्डलस्य नाभिः प्रधानम् ॥" नाभिः प्रधाने कस्तूरीमदेऽपि क्वचिदीरितः" इति विश्वः ॥ सुतोऽभवत् ॥ " अच् प्रत्यन्ववपूर्वात्सामलोम्नः" इत्यत्राजिति योगविभागादुन्नाभपद्मनाभादयः सिद्धाः ॥

  ततः परं वज्रधरप्रभावस्त[]दात्मजः संयति वज्रघोषः।
  बभूव वज्राकरभू[]षणायाः पतिः पृथिव्याः किल व[]ज्रणाभः॥२१॥

 तत इति ॥ ततः परं वज्रधरप्रभाव इन्द्रतेजाः संयति सङ्ग्रामे वज्रघोषोऽशनितुल्यध्वनिर्वज्रणाभो नाम तस्योन्नाभस्यात्मजो वज्राणां हीरकाणामाकराः खनय एव भूषणानि यस्यास्तस्याः पृथिव्याः पतिर्बभूव किल खलु ॥ “ वज्रं त्वस्त्री - कुलिशशस्त्रयोः । मणिवेधे रत्नभेदेऽप्यशनावासनान्तरे" इति केशवः ॥



१९-२० श्लोकयोर्मध्ये क्षेपकोऽयं दृश्यते--

    हित्वाथ भोगांस्तपसोत्तमेन त्रिविष्टपं प्राप्तवति क्षितीशे ।
    तदात्मजः सागरधीरचेताः शशास पृथ्वी सकला नृसोमः ॥


  1. आसोत्सुतः.
  2. तुल्यः.
  3. तस्यात्मजः.
  4. मेखलायाः.
  5. वज्रनाभः, वज्रनामा.