पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३८

पुटमेतत् सुपुष्टितम्
( ३६ )
रघुवंशे

  वत्सोत्सुकापि स्तिमिता सपर्यां प्रत्यग्रहीत्सेति ननन्दतुस्तौ ।
  भक्त्योपपन्नेषु हि तद्विधान प्रसादचिह्नानि पुरःफलानि ॥२२॥

 वत्सोत्सुकेति ॥ सा धेनुर्वत्सोत्सुकापि वत्स उत्कण्ठितापि स्तिमिता निश्चला सती सपर्यां पूजां प्रत्यग्रहीदिति हेतोस्तौ दंपती ननन्दतुः ॥ पूजास्वीकारस्यानन्दहेतुत्वमाह-भक्त्येति ॥ पूज्येष्वनुरागो भक्तिः । तयोपपन्नेषु युक्तेषु विषये तद्विधानाम् । तस्या धेन्वा विधेव विधा प्रकारो येषां तेषाम् । महतामित्यर्थः । प्रसादस्य चिह्नानि लिङ्गानि पूजास्वीकारादीनि पुरःफलानि । पुरोगतानि प्रत्यासन्नानि फलानि येषां तानि हि ॥ अविलम्बितफलसूचकलिङ्गदर्शनादानन्दो युज्यत इत्यर्थः॥

  गुरोः सदारस्य निपीड्य पादौ समाप्य सांध्यं च विधिं दिलीपः।
  दोहावसाने पुनरेव दोग्ध्रीं भेजे भुजोच्छिन्नरिपुर्निषण्णाम्॥२३॥

 गुरोरिति भुजोच्छिनरिपुर्दिलीपः सदारस्य दारैररुंधत्या सह वर्तमानस्य गुरोः । उभयोरपीत्यर्थः ॥ “ भार्या जायाथ पुं भूम्नि दाराः" इत्यमरः ॥ पादौ निपीड्याभिवन्द्य । सांध्यं संध्यायां विहितं विधिमनुष्ठानं च समाप्य । दोहावसाने निषण्णामासीनां दोग्ध्रीं दोहनशीलाम् ॥ “तृन्" इति तन्प्रत्ययः॥ धेनुमेव पुनर्भेजे सेवितवान् ॥ दोग्ध्रीमिति निरुपपदप्रयोगात्कामधेनुत्वं गम्यते ॥

  तामन्तिकन्यस्तबलिप्रदीपांमन्वास्य गोप्ता गृहिणीसहायः ।
  क्रमेण सुप्तामनु संविवेश सुप्तोत्थितां प्रातरनूदतिष्ठत् ॥ २४॥

 तामिति ॥ गोप्ता रक्षको गृहिणीसहायः पत्नीद्वितीयः सन् । उभावपीत्यर्थः । अन्तिके न्यस्ता बलयः प्रदीपाश्च यस्यास्तां तथोक्तां तां पूर्वोक्तां निषण्णां धेनुमन्वास्यानूपविश्य क्रमेण सुप्तामन्वनन्तरं संविवेश सुष्वाप ॥ प्रातः सुप्तोस्थितामनूदतिष्ठदुत्थितवान् ॥ अत्रानुशब्देन धेनुराजव्यापारयोः पौर्वापर्यमुच्यते । क्रमशब्देन धेनुव्यापाराणामेव । इत्यपौनरुक्त्यम् ।। "कर्मप्रवचनीययुक्ते-" इति द्वितीया ॥

  इत्थं व्रतं धारयतः प्रजार्थं समं महिष्या महनीयकीर्तेः ।
  सप्त व्यतीयुस्त्रिगुणानि तस्य दिनानि दीनोद्धरणोचितस्य॥२५॥

 इत्थमिति ॥ इत्थमनेन प्रकारेण प्रजार्थं संतानाय महिष्या सममभिषिक्तपत्न्या सह ॥ "कृताभिषेका महिषी" इत्यमरः॥ व्रतं धारयतः । महनीया पूज्या कीर्तिर्यस्य तस्य । दीनानामुद्धरणं दैन्यविमोचनम् । तत्रोचितस्य परिचितस्य तस्य नृप-