तत्रेति ॥ तत्र दीर्घिकास्वङ्गनाः सेकेन हृतं लोचनाञ्जनं नेत्रकज्जलं येषां तैः। रज्यतेऽनेनेति रागो रागद्रव्यं लाक्षादि । रागस्य परिपाटलोऽङ्गगुणः ॥ “गुणे शुक्लादयः पुंसि" इत्यमरः ॥ धौतो रागपरिपाटलो येषां ते तथोक्ता अधरा येषां तैः। निवृत्तसांक्रमिकरागैरित्यर्थः । अतएवार्पितप्रकृतकान्तिभिः। अभिव्यञ्जितस्वाभाविकरागैरित्यर्थः । एवंभूतैर्मुखैस्तमग्निवर्णमधिकं व्यलोभयन्प्रलोभितवत्यः ॥
घ्राणेति ॥ प्रियासखः सोऽग्निवर्णो घ्राणकान्तेन घ्राणतर्पणेन मधुगन्धेन कर्षिणीमनोहारिणीः। रच्यन्त इति रचनाः । पानभूमय एव रचनाः । रचिता पानभूमय इत्यर्थः । वासितासखः करिणीसहचरः ॥ “वासिता स्त्रीकरिण्योश्च" इत्यमरः ॥ द्विपः पुष्पिता: कमलिनीरिव । अभ्यपद्यताभिगतः ॥
सातिरेकमदकारणं रहस्तेन दत्तमभिलेषुरङ्गनाः।
ताभिरप्युपहृतं मुखासवं सोऽपिबद्धकुलतुल्यदोह[७]दः॥ १२ ॥
सातिरेकेति ॥ अङ्गना रहो रहसि सातिरेकस्य सातिशयस्य मदस्य कारणं तेनाग्निवर्णेन दत्तं मुखासवमभिलेषुः । बकुलेन तुल्यदोहदस्तुल्याभिलाषः ॥ "अथ दोहदम् । इच्छाकाङ्क्षा स्पृहेहा तृट्" इत्यमरः ॥ बकुलद्रुमस्याङ्गनामद्यार्थित्वात्तुल्याभिलाषत्वम् ॥ सोऽपि ताभिरङ्गनाभिरुपहृतं दत्तं मुखासवमपिबत् ॥
अङ्कमिति ॥ अङ्कपरिवर्तनोचिते उत्सङ्गविहारार्हे उभे तस्याग्निवर्णस्याङ्कमशून्यतां पूर्णतां निन्यतुः ॥ के उभे । हृदयंगमस्वना मनोहरध्वनिर्वल्लकी वीणा च । वल्गुवाङ्मधुरभाषिणी वामलोचना कामिन्यपि च । हृदयं गच्छतीति हृदयंगमः ॥ खच्प्रकरणे गमेः सुप्युपसंख्यानात्खच्प्रत्ययः ॥ अङ्काधिरोपितयोर्वीणावामाक्ष्योर्वाद्यगीताभ्यामरंस्तेत्यर्थः॥