पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३८४

पुटमेतत् सुपुष्टितम्
( ३८२ )
रघुवंशे

  स्वप्नकीर्तितविपक्षमङ्गनाःप्रत्यभैत्सुरवदन्त्य एव तम् ।
  प्रच्छदान्तगलिताश्रुबिन्दुभिः क्रोधभिन्नवलयैर्विवर्तनैः॥२२॥

 स्वप्नेति ॥ स्वप्ने कीर्तितो विपक्षः सपत्नजनो येन तं तमग्निवर्णम् । अवदन्त्य एव । त्वया गोत्रस्खलनं कृतमित्यनुपालम्भमाना एव । प्रच्छदस्यास्तरणपटस्यान्ते मध्ये गलिता अश्रुबिन्दवो येषु तैः क्रोधेन भिन्नानि भग्नानि वलयानि येषु तैर्विवर्तनैः पराग्विलम्वनैः प्रत्यभैत्सुः प्रतिचक्रुः । तिरश्चक्रुरित्यर्थः ॥

  क्लृप्तपुष्पशयनॉंल्लताग्रहानेत्य दूतिकृतमार्गदर्शनः ।
  अन्वभूत्परिजनाङ्गनारतं सोऽवरोधभयवेपथूत्तरम् ॥ २३॥

 क्लृप्तेति ॥ सोऽग्निवर्णो दूतिभिः कृतमार्गदर्शनः सन् । क्लृप्तपुष्पशयनॉंल्लतागृहानेत्यावरोधादन्तःपुरजनाद्भयेन यो वेपथुः कम्पस्तदुत्तरं तत्प्रधानं यथा तथा परिजनाङ्गनारतं दासीरतमन्वभूत् । परिजनश्चासावङ्गना चेति विग्रहः। अत्र ङीबन्तस्यापि दूतीशब्दस्य छन्दोभङ्गभयाध्रस्वत्वं कृतम् । “अपि माषं मषं कुर्याच्छन्दोभङ्गं त्यजेद्गिराम्" इत्युपदेशात् ॥

  नाम वल्लभजनस्य ते मया प्राप्य भाग्यमपि तस्य काङ्क्ष्यते ।
  लोलुपं न[१]नु मनो ममेति तं गोत्रविस्खलितमूचुरङ्गनाः॥२४॥

 नामेति ॥ मया ते वल्लभजनस्य प्रियजनस्य नाम प्राप्य तन्नाम्नाह्वानं लब्ध्वा तस्य त्वद्वल्लभजनस्य यद्भाग्यम् । तत्परिहासकारणमिति शेषः । तदपि काङ्क्ष्यते॥ननु बत मम मनो लोलुपं गृध्रुः । इत्यनेन प्रकारेण गोत्रे नाम्नि विस्खलितं स्खलितवन्तं तमग्निवर्णमूचुः ॥ “गोत्रं नाम्नि कुलेऽचले” इति यादवः ॥ तन्नामलाभे सति तद्भाग्यमपि काङ्क्षिणो मनः । अहो तृष्णेति सोल्लुण्ठमुपालम्भन्तेत्यर्थः ।।

  चूर्णबभ्रु ल<ref>लुलितं स्रगाकुलम् ; ललितं स्रगाकुलम्.</refलितस्रगाकुलं छिन्नमेखलमलक्तकाङ्कितम् ।
  उत्थितस्य शयनं विलासिनस्तस्य विभ्रमरतान्यपावृणोत्॥२५॥

 चूर्णेति ॥ चूर्णबभ्रु चूर्णैर्व्यानतकरणैरधोमुखावस्थितायाः स्त्रियाश्चिकुरगलितैः कुङ्कुमादिभिर्बभ्रु पिङ्गलम् ॥ "बभ्रु स्यात्पिङ्गले त्रिषु" इत्यमरः ॥ लुलितस्रगाकुलं करिपदाख्यबन्धे स्त्रिया भूमिगतमस्तकतया पतिताभिर्लुलितस्रग्भिराकुलम्। छिन्नमेखलं हरिविक्रमकरणैः स्त्रिया उच्छ्रितैकचरणत्वाद्गलितमेखलम् । अलक्तकाङ्कितं धैनुकबन्धे भूतलनिहितकान्ताचरणत्वाल्लाक्षारागरुषितं शयनम् । कर्तृ।

उत्थितस्य । शयनादिति भावः । विलासिनस्तस्याग्निवर्णस्य विभ्रमरतानि लीलारतानि । सुरतवन्धविशेषानित्यर्थः। अपावृणोत्स्फुटीचकार ॥ व्यानतादीनां ल-


  1. बत.