पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३८५

पुटमेतत् सुपुष्टितम्
( ३८३ )
एकोनविंशः सर्गः। ।

क्षणं रतिरहस्ये-"व्यानतं रतमिदं प्रिया यदि स्यादधोमुखचतुष्पदाकृतिः। तत्कटिं समधिरुह्य वल्लभः स्याद्वृषादिपशुसंस्थितस्थितिः॥ भूगतस्तनभुजास्यमस्तकामुन्नतस्फिचमधोमुखीं स्त्रियम् । क्रामति स्वकरकृष्टमेहने वल्लभे करिपदं तदुच्यते ॥ योषिदेकचरणे समुत्थिते जायते हि हरिविक्रमाह्वयः ॥ न्यस्तहस्तयुगला निजे पदे योषिदेति कटिरूढवल्लभा। अग्रतो यदि शनैरधोमुखी धैनुकं वृषवदुन्नते प्रिये" इति ॥

  स स्वयं चरणरागमादधे योषितां न[१] च तथा स[२]माहितः।
  लोभ्यमाननयनः श्लथांशुकैर्मेखलागुणपदैर्नितम्बिभिः ॥ २६ ॥

 स इति ॥ सोऽग्निवर्णः स्वयमेव योषितां चरणयो रागं लाक्षारसमादधेऽर्पयामास ॥ किंच । श्लथांशुकैः । प्रियाङ्गस्पर्शादिति भावः । निम्बिभिर्नितम्बवद्भिर्मेखलागुणपदैर्जघनैः ॥ “पश्चान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः" इत्यमरः ॥ लोभ्यमाननयन आकृष्यमाणदृष्टिः सन् । तथा समाहितोऽवहितो नादधे यथा सम्यग्रागरचना स्यादिति भावः ॥

  चु[३]म्बने विपरिवर्तिताधरं हस्तरोधि रशनाविघट्टने ।
  विघ्नितेच्छमपि तस्य सर्वतो म[४]न्मथेन्धनमभूद्वधूरतम् ॥ २७ ॥

 चुम्बन इति ॥ चुम्बने प्रवृत्ते सति विपरिवर्तिताधरं परिहृतोष्ठम् । रशनाविघट्टने ग्रन्थिविस्रंसने प्रसक्ते सति हस्तं रुणद्धि वारयतीति हस्तरोधि । इत्थं सर्वतः सर्वत्र विघ्नितेच्छं प्रतिहतमनोरथमपि वधूनां रतं सुरतं तस्याग्निवर्णस्य मन्मथेन्धनं कामोद्दीपनमभूत् ॥

  दर्पणेषु परिभोगदर्शिनीर्नर्मपूर्वमनुपृष्ठसं[५]स्थितः ।
  छायया स्मितमनोज्ञया वधूर्ह्रीनिमीलितमुखी[६]श्चकार सः॥२८॥

 दर्पणेष्विति ॥ सोऽग्निवर्णो दर्पणेषु परिभोगदर्शिनीः संभोगचिह्नानि पश्यन्तीर्वधूर्नर्मपूर्वं परिहासपूर्वमनुपृष्ठं तासां पृष्ठभागे संस्थितः सन् । स्मितेन मनोज्ञया छायया दर्पणगतेन स्वप्रतिबिम्बेन ह्रीनिमीलितमुखीर्लज्जावनतमुखीश्चकार । तमागतं दृष्ट्वा लज्जिता इत्यर्थः ॥

  कण्ठसक्तमृदुबाहुबन्धनं न्यस्तपादतलमग्रपादयोः।
  प्रार्थयन्त शयनोत्थितं प्रियास्तं निशात्ययवि[७]सर्गचुम्बनम् ॥२९॥

 कण्ठेति ॥ प्रियाः शयनादुत्थितं तमग्निवर्णं कण्ठसक्तं कण्ठार्पितं मृदुबाहुब-


  1. न तु; तु न; ननु.
  2. समाहितम्.
  3. चुम्बने च परिवर्तिताधरम् ; चुम्बनेषु परिवर्तिताधरम् ;
    चुम्बनेषु परिवर्तिताननम्.
  4. मन्मथोत्तरम्.
  5. संश्रयः.
  6. दृशः.
  7. विरोध; वियोग.