पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३८७

पुटमेतत् सुपुष्टितम्
( ३८५ )
एकोनविंशः सर्गः। ।

 संगमायेति ॥ संगमाय सुरतार्थं निशि गूढमज्ञातं चरतीष्टगृहं प्रति गच्छतीति गूढचारी । तं चारदूतिकथितम् । चरन्तीति चारा गूढचारिण्यः ॥ “ज्वलिति कसन्तेभ्यो णः" इति णप्रत्ययः ॥ चाराश्च ता दूत्यश्च चारदूतयः । ताभिः कथितं निवेदितं तमग्निवर्णमङ्गनाः पुरोऽग्रे गताः । अवरुद्धमार्गाः सत्य इत्यर्थः । हे कामुक, तमसा वृतो गूढः सन्कुतो वञ्चयिष्यसीति । उपालभ्येति शेषः । चकृषुः ॥ स्ववासं निन्युरित्यर्थः॥

  योषितामुडुपतेरिवार्चिषां स्प[१]र्शनिर्वृतिमसाव[२]वाप्नुवन् ।
  आरुरोह कुमुदाकरोपमां रात्रिजागरपरो दिवाशयः ॥ ३४ ॥

 योषितामिति ॥ उडुपतेरिन्दोरर्चिषां भासामिव ॥ “ज्वाला भासो न पुंस्यर्चिः" इत्यमरः ॥ योषितां स्पर्शनिर्वृतिं स्पर्शसुखमवाप्नुवन् । किंच । रात्रिषु जागरपरः । दिवा दिवसेषु शेते स्वपितीति दिवाशयः ॥ " अधिकरणे शेतेः " इत्यच्प्रत्ययः ॥ असावग्निवर्णः कुमुदाकरस्योपमा साम्यमारुरोह प्राप ॥

  वेणुना दशनपीडिताधरा वीणया न[३]खपदाङ्कितोरवः ।
  शि[४]ल्पकार्य उभयेन वेजितास्तं विजिह्मनयना व्यलोभयन्।।३५

 वेणुनेति ॥ दशनैः पीडिताधरा दष्टोष्ठा: । नखपदैर्नखक्षतैरङ्कितोरवश्चिह्नितोत्सङ्गाः । व्रणिताधरोरुत्वादक्षमा इत्यर्थः । तथापि वेणुना वीणया चेत्युभयेन । अधरोरुपीडाकारिणेत्यर्थः । वेजिताः पीडिताः शिल्पं वेणुवीणावाद्यादिकं कुर्वन्तीति शिल्पकार्यो गायिकाः ॥ “कर्मण्यण्" इत्यण् । “टिड्ढाणञ्-" इत्यादिना ङीप् ॥ तं विजिह्मनयनाः कुटिलदृष्टयः सत्यः । स्वं चेष्टितं जानन्नपि वृथा नः पीडयतीति साभिप्रायं पश्यन्त्य इत्यर्थः । व्यलोभयन् । तथाविधालोकनमपि तस्याकर्षकमेवाभूदिति भावः ।।

  अङ्गसत्त्ववच[५]नाश्रयं मिथः स्त्रीषु नृत्यमु[६]पधाय दर्शयन् ।
  स प्रयोगनिपु[७]णैः प्र[८]योक्तृभिः सं[९]जघर्ष सह मित्रसंनिधौ ।। ३६ ॥

 अङ्गेति ॥ अङ्ग हस्तादि । सत्त्वमन्तःकरणम् । वचनं गेयं चाश्रयः कारणं यस्य तदङ्गसत्त्ववचनाश्रयम् । आङ्गिकसात्त्विकवाचिकरूपेण त्रिविधमित्यर्थः॥ यथाह भरतः-“ सामान्याभिनयो नाम ज्ञेयो वागङ्गसत्त्वजः" इति ॥ नृत्यमभि-


  1. स्पर्शनिर्वृतसुखानि.
  2. अनाप्नुवन्.
  3. नखपदाङ्कितो रस:.
  4. शिल्पिकार्यः, शिल्पिकार्यम्.
  5. रचनाश्रयम्.
  6. उपधार्य दर्शयन् ; उपदर्शयन्नृपः.
  7. निपुणः
  8. प्रियोक्तिभिः-
  9. संजहर्ष.