पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३९३

पुटमेतत् सुपुष्टितम्
( ३९१ )
एकोनविंशः सर्गः। ।

 तमिति ॥ प्रसवो गर्भमोचनम् । फलं च विवक्षितम् ॥ " स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने" इत्यमरः ॥ तस्य यः समयस्तदाकाङ्क्षिणीनां प्रजानां भावार्थं भावाय । भूतय इत्यर्थः । “भावो लीलाक्रियाचेष्टाभूत्यभिप्रायजन्तुषु " इति यादवः ॥ क्षितिरन्तर्गूढं नभोवीजमुष्टिमिव । श्रावणमास्युप्तं बीजमुष्टिं यथा धत्ते तद्वदित्यर्थः ॥ मुष्टिशब्दो द्विलिङ्गः ॥"अक्लीबौ मुष्टिमुस्तकौ" इति यादवः॥ अन्तगूढमन्तर्गतं तं गर्भं दधाना हेमसिंहासनस्थाव्याहताज्ञा राज्ञी मौलैर्मूले भवैर्मूलादागतैर्वा । आप्तैरियर्थः । स्थविरसचिवैर्वृद्धामात्यैः सार्धं भर्तू राज्यं विधिवद्विध्यर्हम् । यथाशास्त्रमियर्थः ॥ अर्हार्थे वतिप्रसयः॥ अशिषच्छास्ति स्म ॥ "सतिंशास्त्यतिंभ्यश्च" इति च्लेरङ् । “शास इदङ्हलोः" इतीकारः॥

इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये
अग्निवर्णशृङ्गारो नामैकोनविंशः सर्गः ।



॥ समाप्तम् ॥