पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/४०

पुटमेतत् सुपुष्टितम्
( ३८ )
रघुवंशे

र्ध्वमधित्यका " इत्यमरः ।। " उपाधिभ्यां त्यकन्नासन्नारूढयोः" इति त्यकन्प्रत्ययः॥ प्रफुल्लो विकसितस्तम् ॥ “फुल्ल विकसने" इति धातोः पचाद्यच्॥"प्रफुल्लतम्" इति तकारपाठे “ ञिफला विशरणे" इति धातोः कर्तरि क्तः । “उत्परस्यातः" इत्युकारादेशः ॥ लोध्राख्यं दुममिव । ददर्श ॥

  ततो मृगेन्द्रस्य मृगेन्द्रगामी वधाय वध्यस्य शरं शरण्यः।
  जाताभिषङ्गो नृपतिर्निषङ्गादुद्धर्तुमैच्छत्प्रसभोद्धृतारिः॥३०॥

 तत इति ॥ ततः सिंहदर्शनानन्तरं मृगेन्द्रगामी सिंहगामी । शरणं रक्षणम् ॥ "शरणं गृहरक्षित्रोः" इत्यमरः । “शरणं रक्षणे गृहे " इति यादवः ॥ शरणे साधुः शरण्यः ॥ " तत्र साधुः" इति यत्प्रत्ययः ॥ प्रसभेन बलात्कारेणोद्धृता अरयो येन स नृपती राजा जाताभिषङ्गो जातपराभवः सन् ॥ “अभिषङ्गः पराभवः" इत्यमरः ॥ वध्यस्य वधार्हस्य ॥ " दण्डादिभ्यो यः" इति यप्रत्ययः॥ मृगेन्द्रस्य वधाय निषङ्गात्तूणीरात् ॥ " तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः इत्यमरः ॥ शरमुद्धर्तुमैच्छत् ।।

  वामेतरस्तस्य करः प्रहर्तुर्नखप्रभाभूषितकङ्कपत्रे ।
  []सक्ताङ्गुलिः सायकपुङ्ख एव चित्रार्पितारम्भ इवावतस्थे ॥ ३१ ॥

 वामेति ॥ प्रहर्तुस्तस्य वामेतरो दक्षिणः करः । नखप्रभाभिर्भूषितानि विच्छुरितानि कङ्कस्य पक्षिविशेषस्य पत्राणि यस्य तस्मिन् ॥ “कङ्कः पक्षिविशेषे स्याद्रुप्ताकारे युधिष्ठिरे" इति विश्वः । “कङ्कस्तु कर्कटः" इति यादवः ॥ सायकस्य पुङ्ख एव कर्तर्याख्ये मूलप्रदेशे। “कर्तरी पुङ्खे” इति यादवः॥ सक्ताङ्गुलिः सन् । चित्रार्पितारम्भश्चित्रलिखितशरोद्धरणोद्योग इव । अवतस्थे ॥

  बाहुप्रतिष्टम्भविवृद्धमन्युरभ्यर्णमागस्कृतमस्पृशद्भिः ।
  राजा स्वतेजोभिरदह्यतान्तर्भोगीव मन्त्रौषधिरुद्धवीर्यः ॥ ३२ ॥

 बाह्विति ॥ बाह्वोः प्रतिष्टम्भेन प्रतिबन्धेन । “प्रतिबन्धः प्रतिष्टम्भः" इत्यमरः ॥ विवृद्धमन्युः प्रष्टद्धरोषो राजा। मन्त्रौषधिभ्यां रुद्धवीर्यः प्रतिबद्धशक्तिर्भोगी सर्प इव ॥ " भोगी राजभुजंगयोः" इति शाश्वतः ॥ अभ्यर्णमन्तिकम् ॥ "उपकण्ठान्तिकाभ्यर्णाभ्यग्रा अप्यभितोऽव्ययम्" इत्यमरः ॥ आगस्कृतमपराधकारिणमस्पृशद्धिः स्वतेजोभिरन्तरदह्यत ॥ "अधिक्षेपाद्यसहनं तेजः प्राणात्ययेष्वपि" इति यादवः॥


  1. लग्नाङ्गुलिः