पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/४२

पुटमेतत् सुपुष्टितम्
( ४० )
रघुवंशे

  अमुं पुरः पश्यसि देवदारुं पुत्रीकृतोऽ[]सौ वृषभध्वजेन।
  यो हेमकुम्भस्तननिःसृतानां स्कन्दस्य मातुः पयसां रसज्ञः॥३६॥

 अमुमिति ॥ पुरोऽग्रतोऽमुं देवदारुं पश्यसि । इति काकुः ॥ असौ देवदारुः। वृषभो ध्वजे यस्य स तेन शिवेन पुत्रीकृतः पुत्रत्वेन स्वीकृतः॥ अभूततद्भावे च्विः।। यो देवदारुः स्कन्दस्य मातुर्गौर्या हेम्नः कुम्भ एव स्तनः । तस्मान्निःसृतानां पयसामम्बूनां रसज्ञः स्वादज्ञः ॥ स्कन्दपक्षे हेमकुम्भ इव स्तन इति विग्रहः । पयसां क्षीराणाम् ॥ “पयः क्षीरं पयोऽम्बु च" इत्यमरः॥ स्कन्दसमानप्रेमास्पदमिति भावः ॥

  कण्डूयमानेन कटं कदाचिद्वन्यद्विपेनोन्मथिता त्वगस्य ।
  अथैनमद्रेस्तनया शुशोच सेनान्यमालीढमिवासुरास्त्रैः॥ ३७॥

 कण्डूयमानेनेति ॥ कदाचित्कटं कपोलं कण्डूयमानेन कर्षता ॥ “कण्ड्वादिभ्यो यक्" इति यक् । ततः शानच् ॥ वन्यद्विपेनास्य देवदारोस्त्वगुन्मथिता ॥ अथाद्रेस्तनया गौरी । असुरास्त्रैरालीढं क्षतम् । सेनां नयतीति सेनानीः स्कन्दः ॥ 'पार्वतीनन्दनः स्कन्दः सेनानीः" इत्यमरः ॥ “सत्सूद्विष-" इत्यादिना क्विप् । तमिव । एनं देवदारुं शुशोच ॥

  तदाप्रभृत्येव व[]नद्विपानां त्रासार्थमस्मिन्नहमद्रिकुक्षौ ।
  व्यापारितः शूलभृता विधाय सिंहत्वमङ्कागतसत्त्ववृत्ति ॥३८॥

 तदेति ॥ तदा तत्कालः प्रभृतिरादिर्यस्मिन्कर्मणि तत्तथा तदाप्रभृत्येव वनद्विपानां त्रासार्थं भयार्थं शूलभृता शिवेन । अङ्क समीपमागताः प्राप्ताः सत्त्वाः प्राणिनो वृत्तिर्यस्मिंस्तत् ॥ "अङ्कः समीप उत्सङ्गे चिह्ने स्थानापराधयोः" इति केशवः ॥ सिंहत्वं विधाय । अस्मिन्नद्रिकुक्षौ गुहायामहं व्यापारितो नियुक्तः ॥

  तस्यालमेषा क्षुधितस तृप्त्यै प्रदिष्टकाला परमेश्वरेण ।
  उपस्थिता शोणितपारणा में सुरद्विषश्चान्द्रमसी []सुधेव ॥ ३९॥

 तस्येति ॥ परमेश्वरेण प्रदिष्टो निर्दिष्टः कालो भोजनवेला यस्याः सोपस्थिता प्राप्तैषा गोरूपा शोणितपारणा रुधिरस्य व्रतान्तभोजनम् । सुरद्विषो राहोः । चन्द्रमस इयं चान्द्रमसी सुधेव । क्षुधितस्य बुभुक्षितस्य तस्याङ्कागतसत्त्ववृत्तेर्मे सिंहस्य तृप्त्या अलं पर्याप्ता ॥ “नमःस्वस्ति-" इत्यादिना चतुर्थी ॥


  1. अयम्.
  2. मतङ्गजानाम्.
  3. कला.