पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/४५

पुटमेतत् सुपुष्टितम्
( ४३ )
द्वितीयः सर्गः ।

 एकेति ॥ एकातपत्रमेकच्छत्रं जगतः प्रभुत्वं स्वामित्वम् । नवं वयो यौवनम् । इदं कान्तं रम्यं वपुश्च । इत्येवं बहु । अल्पस्य हेतोरल्पेन कारणेन । अल्पफलायेत्यर्थः ॥"षष्ठी हेतुपयोगे" इति षष्ठी । हातुं त्यक्तुमिच्छंस्त्वं विचारे कार्याकार्यविमर्शे मूढो मूर्खो मे मम प्रतिभासि ॥

  भूतानुकम्पा तव चेदियं गौरेका भवेत्स्वस्तिमती त्वदन्ते ।
  जीवन्पुनः शश्वदुपप्लवेभ्यः प्रजाः प्रजानाथ पितेव पासि ॥४८॥

 भूतेति ॥ तव भूतेष्वनुकम्पा कृपा चेत् ।। कृपा दयानुकम्पा स्यात्" इत्यमरः ॥ कृपैव वर्तते चेदित्यर्थः । तर्हि त्वदन्ते तव नाशे सतीयमेका गौः । स्वस्ति क्षेममस्या अस्तीति खस्तिमती । भवेत् । जीवेदित्यर्थः । “स्वस्त्याशीः क्षेमपुण्यादौ” इत्यमरः ॥ हे प्रजानाथ । जीवन्पुनः पितेव प्रजा उपप्लवेभ्यो विघ्नेभ्यः शश्वत्सदा ॥ “पुनः सदार्थयोः शश्वत्" इत्यमरः ॥ पासि रक्षसि । स्वप्राणव्येनैकधेनुरक्षणाद्वरं जीवितेनैव शश्वदखिलजगत्राणमित्यर्थः ॥

 न धर्मलोपादियं प्रवृत्तिः, किंतु गुरुभयादित्यत आह-

  अथैकधेनोरपराधच[१]ण्डाद्गुरोः कृशानुप्रतिमाद्बिभेषि ।
  शक्योऽस्य मन्युर्भवता विनेतुं गाः कोटिशः स्पर्शयता घटोघ्नीः ।।४९।।

 अथेति ॥ अथेति पक्षान्तरे । अथवा । एकैव धेनुर्यस्य तस्मात् । अयं कोपकारणोपन्यास इति ज्ञेयम् । अत एवापराधे गोपेक्षालक्षणे सति चण्डादतिकोपनात् ॥ “ चण्डस्त्वत्यन्तकोपनः" इत्यमरः ॥ अत एव कशानुः प्रतिमोपमा यस्य तस्मादग्निकल्पाद्गुरोर्बिभेषि । इति काकुः॥ भीत्रार्थानां भयहेतुः" इत्यपादानात्पञ्चमी ॥ अल्पवित्तस्य धनहानिरतिदुःसहेति भावः । अस्य गुरोर्मन्युः क्रोधः।। मन्युर्दैन्ये क्रतौ क्रुधि" इत्यमरः ॥ घटा इवोधांसि यासां ता घटोध्नीः ॥ “ऊधसोऽनङ्" इत्यनङादेशः । “बहुव्रीहेरूधसो ङीष्" इति ङीष् ॥ कोटिशो गाः स्पर्शयता प्रतिपादयता ॥ “विश्राणनं वितरणं स्पर्शनं प्रतिपादनम्" इत्यमरः ॥ भवता विनेतुमपनेतुं शक्यः॥

  तद्रक्ष कल्याणपरंपराणां भोक्तारमूर्जस्वलमात्मदेहम् ।
  महीतलस्पर्शनमात्रभिन्नमृद्धं हि राज्यं पदमैन्द्रमाहुः॥ ५० ॥

 तदिति ॥ तत्तस्मात्कारणात्कल्याणपरंपराणां भोक्तारम् ॥ कर्मणि षष्ठी ॥

ऊर्जो बलमस्यास्तीत्यूर्जस्वलम् ॥ “ज्योत्स्नातमिस्रा-" इत्यादिना वलच्प्रत्य-


  1. दण्डात्.