पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/४७

पुटमेतत् सुपुष्टितम्
( ४५ )
द्वितीयः सर्गः ।

ह-तस्य क्षत्रशब्दस्य विपरीतवृत्तेर्विरुद्धव्यापारस्य क्षतस्त्राणमकुर्वतः पुंसो राज्येन किम् । उपक्रोशमलीमसैर्निन्दामलिनैः । “उपक्रोशो जुगुप्सा च कुत्सा निन्दा च गर्हणे" इत्यमरः ॥ " ज्योत्स्नातमिस्रा-" इत्यादिना मलीमसशब्दो निपातितः ॥ “मलीमसं तु मलिनं कच्चरं मलदूषितम्" इत्यमरः ॥ तैः प्राणैर्वा किम् । निन्दितस्य सर्वं व्यर्थमित्यर्थः । एतेन "एकातपत्रम्” (२।४७) इत्यादिना श्लोकद्वयेनोक्तं प्रत्युक्तमिति वेदितव्यम् ।।

 " अथैकधेनोः" (२॥ ४९) इत्यत्रोत्तरमाह-

  कथं नुं[] शक्योऽनुनयो महर्षेर्विश्राणनाच्चा[]न्यपयस्विनीनाम् ।
  इमामनूनां सुरभेरवेहि रुद्रौजसा तु[] प्रहृतं त्वयास्याम् ॥ ५४॥

 कथमिति ॥ अनुनयः क्रोधापनयः । चकारो वाकारार्थः। महर्षरनुनयो वान्यासां पयस्विनीनां दोग्ध्रीणां गवां विश्राणनाद्दानात् ॥ " त्यागो वितरणं दानमुत्सर्जनविसर्जने । विश्राणनं वितरणम्" इत्यमरः ॥ कथं नु शक्यः । न शक्य इत्यर्थः॥ अत्र हेतुमाह-इमां गां सुरभेः कामधेनोः॥“पञ्चमी विभक्ते इति पञ्चमी ॥ अनूनामन्यूनामवेहि जानीहि ॥ तर्हि कथमस्याः परिभवोऽभूदित्याह- रुद्रौजसेति ॥ अस्यां गवि त्वया । कर्त्रा । प्रहृतं तु प्रहारस्तु ॥ नपुंसके भावे क्तः॥ रुद्रौजसेश्वरसामर्थ्येन । न तु स्वयमित्यर्थः ॥ “ सप्तम्यधिकरणे च" इति सप्तमी॥

 तर्हि किं चिकीर्षितमित्यत्राह--

  सेयं स्वदेहार्पणनिष्क्रयेण न्याय्या मया मोचयितुं भवत्तः ।
  न पारणा स्याद्विहता तवैवं भवेदलुप्तश्च मुनेः क्रियार्थः॥ ५५ ॥

 सेयमिति ॥ सेयं गौर्मया। निष्क्रीयते प्रत्याह्रियतेऽनेन परगृहीतमिति निष्क्रयः प्रतिशीर्षकम् ॥" एरच्" इत्यच्प्रत्ययः ॥ स्वदेहार्पणमेव निष्क्रयस्तेन भयत्तस्त्वत्तः ॥ पञ्चम्यास्तसिल् ॥ मोचयितुं न्याय्या न्यायादनपेता । युक्तेत्यर्थः ॥ "धर्मपथ्यर्थ-" इत्यादिना यत्प्रत्ययः ॥ एवं सति तव पारणा भोजनं विहता न स्यात् ॥ मुनेः क्रिया होमादिः । स एवार्थः प्रयोजनम् । स चालुप्तो भवेत् ॥ स्वप्राणव्ययेनापि स्वामिगुरुधनं संरक्ष्यमिति भावः॥

 अत्र भवानेव प्रमाणमित्याह-

  भवानपीदं परवानवैति महान्हि यत्नस्तव देवदारौ।
  स्थातुं नियोक्तु[]र्न हि शक्यमग्रे विनाश्य रक्ष्यं स्वयमक्षतेन ॥५६॥


  1. अन्य
  2. नु
  3. यदशक्यम्