पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/४९

पुटमेतत् सुपुष्टितम्
( ४७ )
द्वितीयः सर्गः ।

"पललं क्रव्यमामिषम्" इत्यमरः ॥ पिण्डं कवलमिव । उपानयत्समर्पितवान् । एतेन निर्ममत्वमुक्तम् ॥

  तस्मिन्क्षणे पालयितुः प्रजानामुत्पश्यतः सिंहनिपातमुग्रम् ।
  [१]वाङ्मुखस्योपरि पुष्पवृष्टिः पपात विद्याधरहस्तमुक्ता ॥६०॥

 तस्मिन्निति ॥ तस्मिन्क्षण उग्रं सिंहनिपातमुत्पश्यत उत्प्रेक्षमाणस्य तर्कयतोऽवाङ्मुखस्याधोमुखस्य ॥ " स्यादवाङप्यधोमुखः" इत्यमरः ॥ प्रजानां पालयितू राज्ञ उपर्युपरिष्टात् ॥ "उपर्युपरिष्टात्" इति निपातः ॥ विद्याधराणां देवयोनिविशेषाणां हस्तैर्मुक्ता पुष्पवृष्टिः पपात ॥

  उत्तिष्ठ वत्सेत्यमृतायमानं वचो निशम्योत्थितमुत्थितः सन् ।
  ददर्श राजा जननीमिव स्वां गामग्रतः प्रसविणीं न सिंहम् ॥६१॥

 उत्तिष्ठेति ॥ राजा । अमृतमिवाचरतीत्यमृतायमानं तत् ॥ उपमानादाचारे” इति क्यच् । ततः शानच् ॥ उत्थितमुत्पन्नम् हे "वत्स, उत्तिष्ठ" इति वचो निशम्य श्रुत्वा । उत्थितः सन् ॥ अस्तेः शतृप्रत्ययः ॥ अग्रतोऽग्रे प्रस्रवः क्षीरस्रावोऽस्ति यस्याः सा तां प्रस्रविणीं गां स्वां जननीमिव ददर्श । सिंहं न ददर्शः॥

  तं विस्मितं धेनुरुवाच साधो मायां मयोद्भाव्य परीक्षितोऽसि ।
  ऋषिप्रभावान्मयि नान्तकोऽपि प्रभुःप्रहर्तुं किमुतान्यहिंसाः॥६२॥

 तमिति ॥ विस्मितमाश्चर्यं गतम् ॥ कर्तरि क्तः ॥ तं दिलीपं धेनुरुवाच । किमित्यत्राह-हे साधो, मया मायामुद्भाव्य कल्पयित्वा परीक्षितोऽसि । ऋषिप्रभावान्मय्यन्तको यमोऽपि प्रहर्तुं न प्रभुर्न समर्थः । अन्ये हिंस्रा घातुकाः ॥ "शरारुर्घतुको हिंस्रः" इत्यमरः ॥ “नमिकम्पि-" इत्यादिना रप्रत्ययः ॥ किमुत सुष्टु । न प्रभव इति योज्यम् ॥"बलवत्सुष्टु किमुत स्वत्यतीव च निर्भरः" इत्यमरः॥

  भक्त्या गुरौ मय्यनुकम्पया च प्रीतास्मि ते पुत्र[२] वरं वृणीष्व ।
  न केवलानां पयसां प्रसूतिमवेहि मां कामदुघां प्रसन्नाम्॥६३॥

 भक्त्येति ॥ हे पुत्र, गुरौ भक्त्या । मय्यनुकम्पया च । ते तुभ्यं प्रीतास्मि ॥ "क्रियाग्रहणमपि कर्तव्यम्" इति चतुर्थी ॥ वरं देवेभ्यो वरणीयमर्थम् ॥ “देवाद्वृते वरः श्रेष्ठे त्रिषु क्लीवे मनाक्प्रिये" इत्यमरः॥ वृणीष्व स्वीकुरु । तथाहि । मां केवलानां पयसां प्रसूतिं कारणं नावेहि न विद्धि। किंतु प्रसन्ना माम् । कामान्दोग्धीति

कामदुधा । तामवेहि ॥ “दुहः कब्धश्च" इति कप्प्रत्ययः ॥


  1. अधोमुखस्य
  2. वत्स