पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/५०

पुटमेतत् सुपुष्टितम्
( ४८ )
रघुवंशे

  ततः समानीय स मानितार्थी हस्तौ स्वहस्तार्जितवीरशब्दः ।
  वंशस्य कर्तारमनन्तकीर्तिं सुदक्षिणायां तनयं ययाचे ॥६४॥

 तत इति ॥ ततो मानितार्थी । स्वहस्तार्जितो वीर इति शब्दो येन सः । एतेनास्य दातृत्वं दैन्यराहित्यं चोक्तम् । स राजा हस्तौ समानीय संधाय । अञ्जलिं बद्ध्वेत्यर्थः। वंशस्य कर्तारं प्रवर्तयितारम् । अत एव रघुकुलमिति प्रसिद्धिः । अनन्तकीर्तिं स्थिरयशसं तनयं सुदक्षिणायां ययाचे ॥

  संतानकामाय तथेति कामं राज्ञे प्रतिश्रुत्य पयस्विनी सा ।
  दुग्ध्वा पयः पत्रपुटे मदीयं पुत्रोपभुङ्क्ष्वेति तमादिदेश ॥६५॥

 संतानेति ॥ सा पयस्विनी गौः। संतानं कामयत इति संतानकामः ॥ " कर्मण्यम्" ॥ तस्मै राज्ञे तथेति । काम्यत इति कामो वरः ॥ कर्मार्थे घञ्प्रत्ययः॥ तं प्रतिश्रुत्य प्रतिज्ञाय "हे पुत्र, मदीयं पयः पत्रपुटे पत्रनिर्मिते पात्रे दुग्ध्वोपभुङ्क्ष्व पिब" इति तमादिदेशाज्ञापितवती ॥ उपयुङ्क्ष्व " इति वा पाठः ॥

  वत्सस्य होमार्थविधेश्च शेषमृ[१]षेरनुज्ञामधिगम्य मातः।
  औध[२]स्यमिच्छामि तवोपभोक्तुं षष्ठांशमुर्व्या इव रक्षितायाः॥६६॥

 वत्सस्येति ॥ हे मातर् , वत्सस्य वत्सपीतस्य शेषम् । वत्सपीतावशिष्टमित्यर्थः। होम एवार्थः । तस्य विधिरनुष्ठानम् । तस्य च शेषम् । होमावशिष्टमित्यर्थः । तव । ऊधसि भवमौधस्यं क्षीरम् ॥ "शरीरावयवाच्च " इति यत्प्रत्ययः ॥ रक्षिताया उर्व्याः षष्ठांशं षष्ठभागमिव । ऋषेरनुज्ञामधिगम्य । उपभोक्तुमिच्छामि ॥

  इत्थं क्षितीशेन वशिष्ठधेनुर्विज्ञापिता प्रीततरा बभूव ।
  तदन्विता हैमवताच्च कुक्षेः प्रत्याययावाश्रममश्रमेण ॥ ६७॥

 इत्थमिति ॥ इत्थं क्षितीशेन विज्ञापिता वशिष्ठस्य धेनुः प्रीततरा । पूर्वं शुश्रूषया प्रीता । संप्रत्यनया विज्ञापनया प्रीततरातिसंतुष्टा बभूव । तदन्विता तेन दिलीपेनान्विता हैमवताद्धिमवत्संबन्धिनः कुक्षेर्गुहायाः सकाशादश्रमेणानायासेनाश्रमं प्रत्याययावागता च ॥

  तस्याः प्रसन्नेन्दुमुखः प्रसादं गुरुर्नृपाणां गुरवे निवेद्य ।
  प्रहर्षचिह्नानुमितं प्रियायै शशंस वाचा पुनरुक्तयेव ।। ६८॥

 तस्या इति ॥ प्रसन्नेन्दुरिव मुखं यस्य स नृपाणां गुरुर्दिलीपः

प्रहर्षचिह्नैर्मुखरागादिभिरनुमितमूहितं तस्या धेनोः प्रसादमनुग्रहं प्रहर्षचिह्नैरेव ज्ञातत्वात्पुन-


  1. गुरोः
  2. ऊधस्यम्