पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/५१

पुटमेतत् सुपुष्टितम्
( ४९ )
द्वितीयः सर्गः ।

रुक्तयेव । वाचा गुरवे निवेध विज्ञाप्य पश्चात्प्रियायै शशंस । कथितस्यैव कथनं पुनरुक्तिः । न चेह तदस्ति । किंतु चिह्नैः कथितप्रायत्वात्पुनरुक्तयेव स्थितयेत्युत्प्रेक्षा॥

  स नन्दिनीस्तन्यमनिन्दितात्मा सद्वत्सलो वत्सहु[१]तावशेषम् ।
  पपौ वशिष्ठेन कृताभ्यनुज्ञः शु[२]भ्रं यशो मू[३]र्तमिवातितृष्णः ॥६९॥

 स इति ॥ अनिन्दितात्मागर्हितस्वभावः । सत्सु वत्सलः प्रेमवान्सद्वत्सलः ॥ "वत्सांसाभ्यां कामबले" इति लच्प्रत्ययः॥ वशिष्ठेन कृताभ्यनुज्ञः कृतानुमतिः स राजा वत्सस्य हुतस्य चावशेषं पीतहुतावशिष्टं नन्दिन्याः स्तन्यं क्षीरम् । शुभ्रं मूर्तं परिच्छिन्नं यश इव । अतितृष्णः सन्पपौ ।।

  प्रातर्यथोक्तव्रतपारणान्ते प्रास्थानिकं स्वस्त्ययनं प्रयुज्य ।
  तौ दंपती स्वां प्रति राजधानीं प्र[४]स्थापयामास वशी वशिष्ठः||७०॥

 प्रातरिति॥वशी वशिष्ठः प्रातः । यथोक्तस्य पूर्वोक्तस्य व्रतस्य गोसेवारूपस्याङ्गभूता या पारणा तस्या अन्ते प्रास्थानिकं प्रस्थानकाले भवम् । तत्कालोचितमित्यर्थः । “कालाट्ठञ् " इति ठञ्प्रत्ययः ॥ “यथाकथंचिद्गुणवृत्त्यापि काले वर्तमानत्वात्तत्प्रत्यय इष्यते” इति वृत्तिकारः ॥ ईयते प्राप्यतेऽनेनेत्ययनं स्वस्त्ययनं शुभावहमाशीर्वादं प्रयुज्य । तौ दंपती स्वां राजधानीं पुरीं प्रति प्रस्थापयामास ॥

  प्रदक्षिणीकृत्य हुतं हुताशम[५]नन्तरं भर्तुररुंधती च ।
  धेनुं सवत्सां च नृपः प्रतस्थे स[६]न्मङ्गलोदग्रतरप्रभावः॥७१॥

 प्रदक्षिणीकृत्येति ॥ नृपो हुतं तर्पितम् । हुतमश्नातीति हुताशोऽग्निः॥ “कर्मण्यण्" ॥ तं भर्तुर्मुनेरनन्तरम् । प्रदक्षिणानन्तरमित्यर्थः । अरुंधतीं च सवत्सां धेनुं च प्रदक्षिणीकृत्य । प्रगतो दक्षिणं प्रदक्षिणम् ॥ “तिष्ठद्गुप्रभृतीनि च" इत्यव्ययीभावः । ततश्च्विः ॥ अप्रदक्षिणं प्रदक्षिणं संपद्यमानं कृत्वा प्रदक्षिणीकृत्य ॥ सद्भिर्मङ्गलैः प्रदक्षिणादिभिर्मङ्गलाचारैरुदग्रतरप्रभावः सन् । प्रतस्थे ।

  श्रोत्राभिरामध्वनिना रथेन स धर्मपत्नीसहितः सहिष्णुः ।
  ययावनुद्धातसुखेन मार्गं स्वेनेव पूर्णेन मनोरथेन ॥७२॥

 श्रोत्रेति ॥ धर्मपत्नीसहितः सहिष्णुर्व्रतादिदुःखसहनशीलः स नृपः श्रोत्रा-


  1. निपीतशेषम्
  2. शुद्धम्
  3. भूपः
  4. संप्रेषयामास
  5. ततश्च होतारम्; ततस्तु होतारम्
  6. सन्मङ्गलोदग्रतरानुभावः