पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/५३

पुटमेतत् सुपुष्टितम्
( ५१ )
तृतीयः सर्गः ।

सहसैवाथ दिग्भ्यो गर्भः प्रभान्वितः । पपात भासयंल्लोकाञ्छीतांशुः सर्वभावनः" इति ॥ सुरसरिद्गङ्गा वह्निना निष्ठ्यूतं विक्षिप्तम् ॥ "च्छ्वोः शूडनुनासिके च" इत्यनेन निपूर्वात्ष्ठीवतेर्वकारस्य ऊठ् । "नुन्ननुत्तास्तनिष्ठ्यूताविद्धक्षिप्तेरिताः समाः" इत्यमरः ॥ ऐशं तेजः स्कन्दमिव । अत्र रामायणम्-- "ते गत्वा पर्वतं राम कैलासं धातुमण्डितम् । अग्निं नियोजयामासुः पुत्रार्थं सर्वदेवताः । देवकार्यमिदं देव समाधत्स्व हुताशन । शैलपुत्र्यां महातेजो गङ्गायां तेज उत्सृज । देवतानां प्रतिज्ञाय गङ्गामभ्येत्य पावकः । गर्भं धारय वै देवि देवतानामिदं प्रियम् । इत्येतद्वचनं श्रुत्वा दिव्यं रूपमधारयत् । स तस्या महिमां दृष्ट्वा समन्तादवकीर्य च । समन्ततस्तु तां देवीमभ्यसिञ्चत पावकः । सर्वस्रोतांसि पूर्णानि गङ्गाया रघुनन्दन" इति ॥ राज्ञी सुदक्षिणा नरपतेर्दिलीपस्य कुलभूत्यै संततिलक्षणायै गुरुभिर्महद्भिर्लोकपालानामनुभावैस्तेजोभिरभिनिविष्टमनुप्रविष्टं गर्भमाधत्त । दधावित्यर्थः ॥ अत्र मनुः--"अष्टानां लोकपालानां वपुर्धारयते नृपः" इति अत्र "आधत्त" इत्यनेन स्त्रीकर्तृकधारणमात्रमुच्यते । तथा मन्त्रे च दृश्यते--"यथेयं पृथिवी मह्युत्ताना गर्भमादधे । एवं त्वं गर्भमाधेहि दशमे मासि सूतवे" इत्याश्वलायनानां सीमन्तमन्त्रे स्त्रीव्यापारधारण आधानशब्दप्रयोगदर्शनादिति ॥ मालिनीवृत्तमेतत् । तदुक्तम्--"ननमयययुतेयं मालिनी भोगिलोकैः" इति लक्षणात् ॥

इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये
नन्दिनीवरप्रदानो नाम द्वितीयः सर्गः ।


तृतीयः सर्गः ।


  उपाधिगम्योऽप्यनुपाधिगम्यः समावलोक्योऽप्यसमावलोक्यः ।
  भवोऽपि योऽभूदभवः शिवोऽयं जगत्यपायादपि नः स पायात् ॥

 राज्ञी गर्भमाधत्तेत्युक्तम् । संप्रति गर्भलक्षणानि वर्णयितुं प्रस्तौति--

  []थेप्सितं भर्तुरुपस्थितोदयं सखीजनोद्वीक्षणकौमुदीमु[]खम् ।
  निदानमिक्ष्वाकुकुलस्य संततेः सुदक्षिणा दौर्हृ[]दलक्षणं दधौ ॥ १ ॥

 अथेति ॥ अथ गर्भधारणानन्तरं सुदक्षिणा । उपस्थितोदयं प्राप्तकालं भर्तुर्दि-



  1. ततो विशांपत्युरनन्तसंततेर्मनोरथं किंचिदिवोदयोन्मुखम् । अनन्यसौहार्दरसस्य दोहदं प्रिया प्रपेदे प्रकृतिप्रियंपदा.
  2. सुखम्.
  3. दोहदलक्षणम्.