पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/५५

पुटमेतत् सुपुष्टितम्
( ५३ )
तृतीयः सर्गः ।

नराजिपल्वलानां कान्तकामिनीवदनसमाधिरनुसंधेयः । गर्भिणीनां मृद्भक्षणं लोकप्रसिद्धमेव । एतेन दोहदाख्यं गर्भलक्षणमुच्यते-

 दोहदलक्षणे मृद्भक्षणे हेत्वन्तरमुत्प्रेक्षते-

  दिवं मरुत्वानिव भोक्ष्यते भु[१]वं दिगन्तविश्रान्तरथो हि त[२]त्सुतः।
  अतोऽभिलाषे प्रथमं तथाविधे मनो बबन्धान्यरसान्विलङ्घ्य सा॥४॥

 दिवमिति ॥ हि यस्माद्दिगन्तविश्रान्तरथश्चक्रवर्ती तस्याः सुतस्तत्मुतः। मरुत्वानिन्द्रः ॥ “ इन्द्रो मरुत्वान्मघवा" इत्यमरः ॥ दिवं स्वर्गमिव । भुवं भोक्ष्यते ॥ “भुजोऽनवने" इत्यात्मनेपदम् ॥ अतः प्रथमं सा सुदक्षिणा तथाविधे भूविकारे मृद्रूपे । अभिलष्यत इत्यभिलाषो भोग्यवस्तु । तस्मिन् ॥ कर्मणि घञ्प्रत्ययः ॥ रस्यन्ते स्वाद्यन्त इति रसा भोग्यार्थाः । अन्ये च ते रसाश्च तान्विलङ्घ्य विहाय मनो बबन्ध । विदधावित्यर्थः ॥ दोहदहेतुकस्य मृद्भक्षणस्य पुत्रभूभोगसूचनार्थत्वमुत्प्रेक्षते ॥

  न मे ह्रिया शंसति किंचिदीप्सितं स्पृहावती वस्तुषु केषु मागधी।
  इति स्म पृच्छत्यनुवेलमादृतः प्रियासखीरुत्तरकोसलेश्वरः॥५॥

 नेति ॥ मगधस्य राज्ञोऽपत्यं स्त्री मागधी सुदक्षिणा ॥ " द्वयञ्मगधकलिङ्गसूरमसादण्" इत्यण्प्रत्ययः॥ ह्रिया किंचित्किमपीप्सितमिष्टं मे मह्यं न शंसति नाचष्टे । केषु वस्तुषु स्पृहावतीत्यनुवेलमनुक्षणमादृत आदृतवान् ॥ कर्तरि क्तः ॥ "आदृतौ सादरार्चित्तौ" इत्यमरः ॥ प्रियायाः सखीः सहचरीरुत्तरकोसलेश्वरो दिलीपः पृच्छति स्म पप्रच्छ ॥ " लट् स्मे" इत्यनेन भूतार्थे लट् ॥ सखीनां विश्रम्भभूमित्वादिति भावः॥

  उपेत्य सा दोहददुःखशीलतां यदेव वव्रे तदपश्यदाहृतम् ।
  न हीष्टम[३]स्य त्रिदिवेऽपि भूपतेर[४]भूदनासाद्यमधिज्यधन्वनः ॥६॥

 उपेत्येति ॥ दोहदं गर्भिणीमनोरथः ॥ "दोहदं दौर्हृदं श्रद्धा लालसं च समं स्मृतम्" इति हलायुधः ॥ सा सुदक्षिणा दोहदेन गर्भिणीमनोरथेन दुःखशीलतां दुःखस्वभावतामुपेत्य प्राप्य यदस्तु वव्र आचकाङ्क्ष तदाहृतमानीतम् । भर्त्रेति शेषः। अपश्यदेव । अलभतेत्यर्थः । कुतः । हि यस्मादस्य भूपतेस्त्रिदिवेऽपि स्वर्गेऽपीष्टं वस्त्वनासाद्यमनवाप्यं नाभूत् । किं याञ्चया । नेत्याह--अधिज्यधन्वन इति ॥

न हि वीरपत्नीनामलभ्यं नाम किंचिदस्तीति भावः॥ अत्र वाह्वटः-"पादशोफो


  1. महीम्
  2. मत्सुतः
  3. अस्याः
  4. बभूव दुष्प्रापम्