पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/५६

पुटमेतत् सुपुष्टितम्
( ५४ )
रघुवंशे

विदाहोऽन्ते श्रद्धा च विविधात्मिका” इति ॥ एतच्च पत्नीमनोरथपूरणाकरणे दृष्टदोषसंभवात् । न तु राज्ञः प्रीतिलौल्यात् । तदुक्तम् 'देयमप्यहितं तस्यै हिताय हितमल्पकम् । श्रद्धाविघाते गर्भस्य विकृतिश्च्युतिरेव वा"॥अन्यत्र च- "दोहदस्याप्रदानेन गर्भो दोषमवाप्नुयात्" इति ॥

  क्रमेण निस्तीर्य च दोहदव्यथां प्रचीयमानावयवा रराज सा।
  पुराणपत्रापगमादनन्तरं लतेव संनद्धमनोज्ञपल्लवा ॥७॥

 क्रमेणेति ॥ सा सुदक्षिणा क्रमेण दोहदव्यथां च निस्तीर्य प्रचीयमानावयवा पुष्यमाणावयवा सती। पुराणपत्राणामपगमान्नाशादनन्तरं संनद्धाः संजाताः प्रत्यग्रत्वान्मनोज्ञाः पल्लवा यस्याः सा लतेव । रराज ॥

 लक्षणान्तरं वर्णयति--

  दिनेषु गच्छत्सु नि[१]तान्तपीवरं तदीयमा[२]नीलमुखं स्तनद्वयम् ।
  ति[३]रश्चकार भ्रमरा[४]भिलीनयोः सुजातयोः पङ्कजकोशयोः श्रियम्॥८॥

 दिनेष्विति ॥ दिनेषु दोहददिवसेषु गच्छत्सु सत्सु नितान्तपीवरमतिस्थूलम् । आ समन्तान्नीले मुखे चूचुके यस्य तत् । तदीयं स्तनद्वयम् । भ्रमरैरभिलीनयोरभिव्याप्तयोः सुजातयोः सुन्दरयोः पङ्कजकोशयोः पद्ममुकुलयोः श्रियं तिरश्चकार ॥ अत्र वाह्वटः-"अम्लेष्टता स्तनौ पीनौ श्वेतान्तौ कृष्णचूचुकौ" इति ॥

  निधानगर्भामिव सागराम्बरां शमीमिवाभ्यन्तरलीनपावकाम्।
  नदीमिवान्तःसलिलां सरस्वतीं नृपः ससत्त्वां महिषीममन्यत ॥९॥

 निधानेति ॥ नृपः ससत्त्वामापन्नसत्त्वाम् । गर्भिणीमित्यर्थः॥ "आपन्नसत्त्वा स्याद्रुर्विण्यन्तर्वत्नी च गर्भिणी" इत्यमरः॥ महिषीम् । निधानं निधिर्गर्भे यस्यास्तां सागराम्बरां समुद्रवसनाम् । भूमिमिवेत्यर्थः ॥ “भूतधात्री रत्नगर्भा विपुला सागराम्बरा" इति कोशः॥ अभ्यन्तरे लीनः पावको यस्यास्तां शमीमिव ॥ शमीतरौ वह्निरस्तीत्यत्र लिङ्गं शमीगर्भादग्निं जनयतीति ॥ अन्तःसलिलामन्तर्गतजलां सरस्वतीं नदीमिव । अमन्यत ॥ एतेन गर्भस्य भाग्यवत्त्वतेजस्वित्वपावनत्वानि विवक्षितानि ॥

  प्रियानुरागस्य मनःसमुन्नतेर्भुजार्जितानां च दिगन्तसंपदाम् ।
  यथाक्रमं पुंसवनादिकाः क्रिया धृतेश्च धीरः सदृशीर्व्यधत्त सः॥१०॥


  1. मधूकपाण्डुरम्
  2. आश्याममुखम्
  3. समुद्गमो वारणदन्तकोशयोर्बभार कान्तिं गवलापिधान्ययोः
  4. अवलीढयोः