पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/५८

पुटमेतत् सुपुष्टितम्
( ५६ )
रघुवंशे

 ग्रहैरिति ॥ ततः शन्येन्द्राण्या समा ॥ पुलोमजा "शचीन्द्राणी" इत्यमरः । सा सुदक्षिणा समये प्रसूतिकाले सति । दशमे मासीत्यर्थः ॥ “दशमे मासि जायते" इति श्रुतः॥ उच्चसंश्रयैरुच्चसंस्थैस्तुङ्गथानगैरसूर्यगैरनस्तमितैः कैश्चिद्यथासंभवं पञ्चभिर्गहैः सूचिता भाग्यसंपद्यस्य तं पुत्रम् । त्रीणि प्रभावमन्त्रोत्साहात्मकानि साधनान्युत्पादकानि यस्याः सा त्रिसाधना शक्तिः॥"शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः" इत्यमरः ।। अक्षयमर्थमिव । असूत ॥ " पूङ् प्राणिगर्भविमोचने इत्यात्मनेपदिषु पठ्यते । तस्माद्धातोः कर्तरि लङ् ॥ अत्रेदमनुसंधेयम् - "अजवृषभमृगाङ्गनाकुलीरा झषवणिजौ च दिवाकरादितुङ्गाः ॥ दशशिखिमनुयुक्तिथीन्द्रियांशैस्त्रिनवकविंशतिभिश्च तेऽस्तनीचाः" इति ।। सूर्यादीनां सप्तानां ग्रहाणां मेषवृषभादयो राशयः श्लोकोक्तक्रमविशिष्टा उच्चस्थानानि । स्वस्वतुङ्गापेक्षया सप्तमस्थानानि च नीचानि । तत्रोच्चेष्वपि दशमादयो राशित्रिंशांशा यथाक्रममुच्चेषु परमोच्चा नीचेषु परमनीचा इति जातकश्लोकार्थः ॥ अत्रांशस्त्रिंशो भागः। यथाह नारद:- त्रिंशद्भागात्मकं लग्नम्" इति ॥ सूर्यपत्यासत्तिर्ग्रहाणामस्तमयो नाम ॥ तदुक्तं लघुजातके-" रविणास्तमयो योगो वियोगस्तूदयो भवेत्” इति ॥ ते च स्वोच्चस्थाः फलन्ति नास्तगा नापि नीचगाः ॥ तदुक्तं राजमृगाङ्के स्वोच्चे पूर्णं स्वर्क्षकेऽर्धं सुहृद्भे पादं द्विड्भेऽल्पं शुभं खेचरेन्द्रः । नीचस्थायी नास्तगो वा न किंचित्पादं नूनं स्वत्रिकोणे ददाति" इति ॥ तदिदमाह कविरुच्चसंश्रयैरसूर्यगैरिति च । एवं सति यस्य जन्मकाले पञ्चप्रभृतयो ग्रहाः स्वोच्चस्थाः स एव तुङ्गो भवति ॥ तदुक्तं कूटस्थीये-“सुखिनः प्रकृष्टकार्या राजप्रतिरूपकाश्च राजानः । एकद्वित्रिचतुर्भिर्जायन्तेऽतः परं दिव्याः" इति ॥ तदिदमाह पञ्चभिरिइति ॥

  दिशः प्रसेदुर्मरुतो ववुः सुखाः प्रदक्षिणार्चि[१]र्हविरग्निराददे ।
  बभूव सर्वं शुभशंसि त[२]त्क्षणं भवो हि लोकाभ्युदयाय तादृशाम्।।१४॥

 दिश इति ॥ तत्क्षणं तस्मिन्क्षणे ॥ कालाध्वनोरत्यन्तसंयोगे द्वितीया । दिशः प्रसेदुः प्रसन्ना बभूवुः । मरुतो वाताः सुखा मनोहरा ववुः । अग्निः- प्रदक्षिणार्चिः सन्हविराददे स्वीचकार । इत्थं सर्वं शुभशंसि शुभसूचकं बभूव ॥ तथा- हि । तादृशां रघुप्रकाराणां भवो जन्म लोकाभ्युदयाय । भवतीति शेषः । ततो देवा अपि संतुष्टा इत्यर्थः॥

  अरिष्टशय्यां परितो विसारिणा सुजन्मनस्तस्य निजेन तेजसा।
  निशीथदीपाः सहसा हतत्विषो बभूवुरालेख्यसमर्पिता इव।।१५॥

 अरिष्टोति ॥ “अरिष्टं सूतिकागृहम्" इत्यमरः ॥ अरिष्टे सूतिकागृहे शय्यां तल्पं


  1. हुतम्
  2. तत्क्षणे