पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/६०

पुटमेतत् सुपुष्टितम्
( ५८ )
रघुवंशे

वशिष्ठमन्त्रप्रभावात्तेजिष्ठोऽभूदित्यर्थः । अत्र मनु:-"प्राङ्गाभिवर्धनात्पुंसो जातकर्म विधीयते" इति ।

  सुखश्रवा मङ्गलतूर्यनिस्वनाः प्रमोदनृ[१]त्यैः सह वारयोषिताम् ।
  न केवलं सद्मनि मागधीपतेः पथि व्यजृम्भन्त दिवौकसामपि ॥१९॥

 सुखश्रवा इति ॥ सुखः सुखकरः श्रवः श्रवणं येषां ते सुखश्रवाः। श्रुतिमुखा इत्यर्थः । मङ्गलतूर्यनिस्वना मङ्गलवाद्यध्वनयो वारयोषितां वेश्यानाम् ॥ “वारस्त्री गणिका वेश्या रूपाजीवा" इत्यमरः ॥ प्रमोदनृत्यैर्हर्षनर्तनैः सह मागधीपतेर्दिलीपस्य सद्मनि केवलं गृह एव न व्यजृम्भन्त। किंतु । द्यौरोको येषां ते दिवौकसो देवाः ॥ पृषोदरादित्वात्साधुः । तेषां पथ्याकाशेऽपि व्यजृम्भन्त । तस्य देवांशत्वाद्देवोपकारित्वाञ्च देवदुन्दुभयोऽपि नेदुरिति भावः ॥

  न संयतस्तस्य बभूव रक्षितुर्विस[२]र्जयेद्यं सुतजन्महर्षितः ।
  ऋणाभिधानात्स्वयमेव केवलं तदा पितृणां मुमुचे स बन्धनात् ॥२०॥

 नेति ॥ रक्षितुः सम्यक्पालनशीलस्य तस्य दिलीपस्य । अत एव चौरादद्यभावत् । संयतो बद्धो न बभूव नाभूत् ॥ किं तेनात आह--विसर्जयेदिति ॥ सुतजन्मना हर्षितस्तोषितःसन् । यं बद्धं विसर्जयेद्विमोचयेत् ॥ किंतु स राजा तदा पितॄणामृणाभिधानाद्वन्धनात्केवलमेकं यथा तथा । स्वयमेव । एक एवेत्यर्थः ॥ “केवलः कृत्स्न एकश्च केवलश्वावधीरितः” इति शाश्वतः । मुमुचे॥ कर्मकर्तरि लिट् ॥ स्यवमेव मुक्त इत्यर्थः । अस्मिन्नर्थे-." एष वा अनृणो यः पुत्री" इति श्रुतिः प्रमाणम् ॥

  श्रुतस्य यायादयमन्तमर्भकस्तथा परेषां युधि चेति पार्थिवः ।
  अवेक्ष्य धातोर्गमनार्थमर्थविच्चकार नाम्ना रघुमात्मसंभवम् ॥२१॥

 श्रुतस्येति ॥ अर्थविच्छब्दार्थज्ञः पार्थिवः पृथिवीश्वरो दिलीपः । अयमर्भको बालकः श्रुतस्य शास्त्रस्यान्तं पारं यायात् । तथा युधि परेषां शत्रूणामन्तं पारं च यायात् । यातुं शक्नुयादित्यर्थः ॥ “शकि लिङ्च" इति शक्यार्थे लिङ् ॥ इति हेतोर्धातोः “अघिवधिलघि गत्यर्थाः" इति लघिधातोर्गमनाख्यमर्थमर्थवित्त्वादवेक्ष्यालोच्य । आत्मसंभवं पुत्रं नाम्ना रघुं चकार । “लङ्घिबंह्योर्नलोपश्च " इत्यप्रत्यये वालमूललघ्वलमङ्गुलीनां वा लो रत्वमापद्यत इति वैकल्पिके रेफादेशे रघुरिति

रूपं सिद्धम् । अत्र शङ्क:-"अशौचे तु व्यतिक्रान्ते नामकर्म विधीयते" इति ॥


  1. नृत्तैः
  2. विमोचयेत्