पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/६१

पुटमेतत् सुपुष्टितम्
( ५९ )
तृतीयः सर्गः ।

  पितुः प्रयत्नात्स समग्रसंपदः शुभैः शरीरावयवैर्दिने दिने।
  पुपोष वृद्धिं हरिदश्वदीधितेरनुप्रवेशादिव बालचन्द्रमाः॥२२॥

 पितुरिति ॥ स रघुः समग्रसंपदः पूर्णलक्ष्मीकस्य पितुर्दिलीपस्य प्रयत्नाच्छुभैर्मनोहरैः शरीरावयवैः। हरिदश्वदीधितेः सूर्यस्य रश्मेः ॥ “ भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः" इत्यमरः ॥ अनुप्रवेशाद्बालचन्द्रमा इव । दिने दिने प्रतिदिनम् ॥ “नित्यवीप्सयोः" इति द्विर्वचनम् ॥ वृद्धिं पुपोष ॥ अत्र वराहसंहितावचनम् -"सलिलमये शशिनि रवेर्दीधितयो मूर्छितास्तमो नैशम् । क्षपयन्ति दर्पणोदरनिहिता इव मन्दिरस्यान्तः" इति ॥

  उमावृषाङ्को शरजन्मना यथा यथा जयन्तेन शचीपुरंदरौ ।
  तथा नृपः सा च सुतेन मागधी ननन्दतुस्तत्सदृशेन तत्समौ ॥२३॥

 उमेति ॥ उमावृषाङ्कौ पार्वतीवृषभध्वजौ शरजन्मना कार्तिकेयेन ॥ “कार्तिकेयो महासेनः शरजन्मा षडाननः" इत्यमरः ॥ यथा ननन्दतुः । शचीपुरंदरौ जयन्तेन जयन्ताख्येन सुतेन ॥"जयन्तः पाकशासनिः" इत्यमरः॥ यथा ननन्दतुः। तथा तत्समौ ताभ्यामुमावृषाङ्काभ्यां शचीपुरंदराभ्यां च समौ समानौ सा मागधी नृपश्च तत्सदृशेन ताभ्यां कुमारजयन्ताभ्यां सदृशेन सुतेन ननन्दतुः ॥ मागधी प्राग्व्याख्याता॥

  रथाङ्गनाम्नोरिख भावबन्धनं बभूव यत्प्रेम परस्पराश्रयम् ।
  विभक्तमप्येक[१]सुतेन तत्तयोः परस्परस्योपरि प[२]र्यचीयत ॥२४॥

 रथाङ्गेति ॥ रथाङ्गनाम्नी च रथाङ्गनामा च रथाङ्गनामानौ चक्रवाकौ ॥ "पुमास्त्रिया" इत्येकशेषः ॥ तयोरिव तयोर्दंपत्योर्भावबन्धनं हृदयाकर्षकं परस्पराश्रयमन्योन्यविषयं यत्प्रेम बभूव तदेकेन केवलेन ताभ्यामन्येन वा ॥ " एके मुख्यान्यकेवलाः" इत्यमरः ।। सुतेन विभक्तमपि कृतविभागमपि परस्परस्योपरि पर्यचीयत ववृधे ॥ कर्मकर्तरि लिट् ॥ अकृत्रिमत्वात्स्वयमेवोपचितमित्यर्थः ॥ यदेकाधारं वस्तु तदाधारद्वये विभज्यमानं हीयते। अत्र तु तयोः प्रागेकैककर्तृकमेकैकविषयं प्रेम संप्रति द्वितीयविषयलाभेऽपि नाहीयत।प्रत्युतोपचितमेवाभूदिति भावः।।

  उवाच धात्र्या प्रथमोदितं वचो ययौ तदीयामवलम्ब्य चाङ्गुलिम्।
  अभूच्च नम्रः प्रणिपातशिक्षया पितुर्मुदं तेन त[३]तान सोऽर्भकः॥२५॥


  1. एकसुते न
  2. पर्यहीयत; न व्यहीयत
  3. शिशुस्ततान सः